SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । २७७ इय जाउं गुणदोसे इति ज्ञात्वा गुणदोषान् । भावेण य संजुदो होह भावेन जिनभक्तिनिजात्मभावनापंचगुरुचरणरेणुरंजितभालस्थल: संयुतो भव । एवं सति शं सुखं तेन युक्तो भव हे मुने ! हे जीवेति सम्बोधनं । तित्थयरगणहराई अब्भुदयपरंपराइं सोक्खा। पावंति भावसहिया संखेवि जिणेहिं वज्जरियं ॥ १२६ तीर्थकरगणधरादीनि अभ्युदयपरम्पराणि सौख्यानि । प्राप्नुवन्ति भावसहिताः संक्षेपेन जिनैः कथितं ॥ तित्थयरगणहराई तीर्थकरगणधरादीनि सौख्यानीति सम्बन्धः । तीर्थकराणां धर्मोपदेशकाले तीर्थकराः कमलोपरि पादौ न्यस्यन्ति, अशोकवृक्षच्छायायामुपविशंति, तेषामुपरि द्वादशयोजनमभिव्याप्य देवाः पुष्पवर्षणं विरचयन्ति, तानि तु पुष्पाणि उपरि मुखानि अधोवृतानि अवतिष्ठन्ते, जानुपर्यन्तं पतन्ति, मुनीनामागमने मुनिपुंगवा मार्ग लभन्ते, भ्रमरपरीतानि कमलोत्पलकैरवेन्दीवरराजचंपकजातिमुक्तबन्धनाट्टहासवकुलकेतकमंदारसुन्दरनमेरुपारिजातसन्तानककल्हारशुक्लरक्तसेवत्रकमुचुकुन्दवृन्दानि पतन्ति, पंचाशल्लक्षद्वादशकोटिपटहा अपराणि च वादित्राणि वेणुवल्लकिपणवमृदंगत्रिविलतालकाहलकम्बुप्रभृतीनि संख्यातीतानि अम्बरचरकुमारकरास्फलितानि समुर्वन्तरिक्षलक्षाणि ध्वनन्ति, सजलजलधरगर्जितमिव स्वामिनो योजनैकं यावद्ध्वनिर्भव्यजनैराकर्ण्यते, हंसांसोउज्वलानि चतुःषष्ठिचामराणि पतन्त्युत्पतन्ति च, पंचशतधनुरुन्नतं सिंहविष्टरं भवति, योजनैकप्रमाणं सभामभिव्याप्य कोटिभास्करयुगप दुद्योतिशरीरतेजो भवति, तच्च शारदेन्दुपरिपूर्णमण्डलमिव लोचनानां प्रियतमं भवति, एकदण्डानि उपर्युपरि त्रीणि च्छत्राणि मस्तकोपरि संभ १ होइ ख.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy