________________
२७६
षट्प्राभृतेतह कम्मबीयदड्ढे तथा कर्मबीजे दग्धे भस्मीकृते । भवंकुरो भावसवणाणं भवाङ्करः संसाराङ्करो जन्मलक्षणो नापि रोहति न प्रादुर्भवति। केषां, भावसवणाणं-सम्यग्दृष्टिनिरम्बराणां दुर्लक्ष्यपरमात्मभावनाभावितानां भेदज्ञानवतां । उक्तं च
दुर्लक्ष्यं जयति परं ज्योतिर्वाचां गणः कवीन्द्राणां । जलमिव वज्रे यस्मिन्नलब्धमध्यो बहिर्जुठति ॥ १ ॥ भावसवणो वि पावइ सुक्खाई दुहाई दव्वसवणो य । इय गाउं गुणदोसे भावेण य संजुदो होह ॥ १२५ ।।
भावश्रवणोपि प्राप्नोति सुखानि दुःखानि द्रव्यश्रवणश्च ।
इति ज्ञात्वा गुणदोषान् भावेन च संयुतो भव ॥ भावसवणो वि पावइ भावश्रवणः सम्यग्दृष्टिदिगम्बरोऽपि निश्चयेन प्राप्नोति लभते । कानि प्राप्नोति, सुक्खाई निजात्मोत्थपरमानन्दलक्षणीनराकुलतासहितपरमानन्तसौख्यानि । दुहाई दव्वसवणो य प्राप्नोतीति दीपकोद्योतात् दुःखानि शारीरमानसागन्तुकलक्षणोपलक्षितान्यसातानि द्रव्यश्रवणो मिथ्यादृष्टिदिगम्बरः प्राप्नोति । चशब्दाद्गृहस्थोऽपि सावद्यसंयुक्तो दानपूजास्नपनरहितः पर्वोपवासकातरः चलमलिनाङ्गरहितसम्यग्दर्शनदुर्विधो व्रतातिचारभग्नपुण्यपादो दूरभव्यतया गुरुचरणनिन्दक आत्महितो न भवति । लौकस्तु महापापी जिनप्रतिमोच्छेदको नारको भवति । तथा चोक्तं--
सर्व धर्ममयं क्वचित्क्वचिदपि प्रायेण पापात्मकं
क्वाप्येतद्वयवत् करोति चरितं प्रशाधनानामपि । तस्मादेतदिहान्धरज्जुवलनं स्नानं गजस्याथवा
मत्तोन्मत्तविचोष्टितं न हि हितो गेहाश्रमः सर्वथा ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org