________________
भावप्राभृतं ।
२७५ ज्ञानमयविमलशीतलसलिलं प्राप्य भव्या भावेन ।
व्याधिजरामरणवेदनादाहविमुक्ताः शिवा भवन्ति ॥ णाणमयविमलसीयलसलिलं ज्ञानेन निवृत्तं ज्ञानमयं सम्यग्ज्ञानमेव विमलं कर्ममलकलंकरहितं शीतलं परमाल्हादलक्षणसुखोत्पादक एतद्विशेषणत्रयविशिष्टं सलिलं जलमिति रूपकं । पाऊण ज्ञानपानीयं प्राप्य लब्ध्वा । के ते, भविय रत्नत्रययोग्या भव्यजीवाः । भावेण भावेन जिनभक्त्या । उक्तं च
सुखयतु सुखभूमिः कामिनं कामिनीव
सुतमिव जननी मां शुद्धशीला भुनक्तु । कुलमिव गुणभूषा कन्यका संपुनीता.. जिनपतिपदपद्मप्रेक्षिणी दृष्टिलक्ष्मीः ॥१॥ वाहिजरमरणवेयणडोहविमुक्का सिवा होंति व्याधिजरामरणवेदनादाहविमुक्ताः शिवा भवन्ति । ज्ञानजलं पीत्वा ज्ञानजलमाकर्ण्य तन्मध्ये ब्रुडित्वा तदवगाह्य परममंगलभूताः शिवाः सिद्धा भवन्ति इति सम्यग्ज्ञानमाहात्म्यं भगवता श्रीकुन्दकुन्दाचार्येण सूरिणोद्भावितं भवतीति भावार्थः ।
जह बीयम्मि य दड्ढे ण वि रोहइ अंकुरो य महिवीढे । तह कम्मबीयदइढे भवंकुरो भावसवणाणं ॥ १२४॥
यथा बीजे दग्धे नैव रोहति अंकुरश्च महीपीठे ।
तथा कर्मबीजे दग्धे भवांकुरो भावश्रवणानां ॥ जह बीयम्मि य दड्ढे यथा येनप्रकारेण बीजे दग्धे भस्मीकृते । ण वि रोहइ अंकुरो य महिवीढे नापि नैव रोहति प्रादुर्भवति । कोऽसौ ? अंकुरः अभिनव उद्भिजं उद्भिद् , महीपीठे भूमितले। चकार उक्तसमुच्चयार्थः, तेन रागद्वेषमोहादयो भावकर्मशाखादयोऽपि न रोहाने
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org