SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २७४ षट्प्राभृते एते पंचपरमेष्ठिनो मंगलमित्युच्यन्ते । लोकेषु भूर्भुवः स्वर्लक्षणेषु उत्तमा उत्कृष्टा लोकोत्तमाः । एते पंचगुरवः सर्वेभ्योऽपि वर्या उध्यन्ते । तथा शरणं - अर्तिमथनसमर्था इमे पंचगुरवो जीवानां शरणं प्रतिपाद्यन्ते, चउसरणशब्देनामी, अर्हन्मंगलं अर्हलोकोत्तमाः अर्हच्छरणं । सिद्धमंगलं सिद्धलोकोत्तमा सिद्धशरणं । साधुमंगलं साधुलोकोत्तमाः साधुशरणं । साधुशब्देनाचार्योपाध्याय सर्वसाधवो लभ्यन्ते । तथा केवलिप्रणीतधर्ममंगलं धर्मलोकोत्तमाः धर्मशरणं चेति द्वादशमंत्राः सूचिताः चतुःशब्देनेति ज्ञातव्यं । एते द्वादशमंत्राः प्रणवपूर्वमायाबीजब्रह्मश्रुतबीजाक्षरपूर्वा ललाटपट्टे गोक्षीरवर्णा लिखिताश्चिन्त्यन्ते । तथा चोक्तं नेत्रद्वन्द्वे श्रवणयुगले नासिकाग्रे ललाटे वक्त्रे नाभौ शिरसि हृदये तालुनि भ्रूयुगान्ते । ध्यानस्थानान्यमलमतिभिः कीर्तितान्यत्र देहे तेष्वेकस्मिन् विगतविषयं चित्तमालम्बनीयम् ॥ १ ॥ परियरिए - लोकोत्तम मंत्रसहितानित्यर्थः । तथा चानादिसिद्धमंत्रो गुरूपदेशान्मन्तव्यः । सूरिणा तु सूरिमंत्रः तिलकमंत्री बृहलघुश्च निजगुरुसमीपादुपदेशात् ध्यातव्य इति भावार्थ: । णरसुरखेयरमहिए कथं भूतान् पंचगुरून्, नरसुरखेचर महितान् नराणां नृपादीनां, सुराणां सौधर्मेन्द्रादीनां, खेचराणां विद्याधरचक्रवर्तिनां, महितान् अष्टविधपूजाद्रव्यैभवपूजाभिश्च पूजितान् । पुनः कथंभूतान् पंचगुरून्, आराहणणायगे भाराधनाया नायकान् स्वामिन इत्यर्थः । वीरे वीरान् कर्मशत्रुक्षयकरणसमर्थानिति भावार्थ: । पाणमय विमलसीयलसलिलं पाऊण भविय भावेण । वाहिजरमरणवेयणडाहविमुक्का सिवा होंति ।। १२३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy