SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७२ षट्प्राभूते काकः कृमिकुलाकीर्णे करके कुरुते रतिम् । यथा तद्वद्वराकोऽयं कामी स्त्रीगुह्यमन्थने ॥ २ ॥ तथा च सोमदेवस्वामी चूर्णिगयेन वैराग्यभावनामाह युवजनमृगाणां बन्धायानाय इव वनितासु कुन्तलकलापः । पुनर्भवमहीरुहारोहणोपाय इव भूलतोल्लासः। संसारसागरपरि. भ्रमाय नौयुग्ममिव लोचनयुगलं । दुःखाटवीविनिपातकरमिव वाचि माधुर्य । मृत्युगजप्रलोभनकवल इवायमधरपल्लवः । स्पर्शविषकन्दोद्भद इव पयोधरविनिवेशः। यमपाशवेष्टनमिव भुजलतालिङ्गनं । उत्पत्तिजरामरणवमव बलीनां त्रयं । आलंभनकुण्डमिव नाभिमण्डलं। अखिलगुणविलोपनखरेखेव रोमराजीवि. निर्गमः । कालव्यालनिवासभूमिरिव मेखलास्थानं। व्यसनागमनतोरणमिवोरुनिर्माणं । अपि च भ्रधनुदृष्टयो बाणास्त्रिशूलं च बलित्रयम् । हृदयं कर्तरी यासां ताः कथं नं नु चण्डिकाः ॥१॥ गुणग्रामविलोपेषु साक्षाढुर्नीतयः स्त्रियः। स्वर्गापवर्गमार्गस्य निसर्गादर्गला इव ॥२॥ गृथकीटो यथा गूथे रतिं कुरुत एव हि।। तथा स्यमध्यसंजातः कामी स्त्रीविईतो भवेत् ॥३॥ एवमिन्द्रियसुखाकुला इन्द्रियसुखविव्हला न छिन्दन्ति भववृक्षमिति सम्बन्धः । छिंदंति भावसवणा छिन्दन्ति द्विधाकुर्वन्ति खण्डयन्ति भववृक्षमिति सम्बन्धः । के छिन्दन्ति ? भावश्रवणा जिनसम्यक्त्वरत्नमण्डितहृदयस्थलाः । झाणकुढारेण भवरुक्खं ध्यानं धर्म्यध्यानं शुक्लध्यानं च तदेवकुठारः कुठान् वृक्षान् इयति गृह्णातीति कुठारः, ध्यानमेव कुठारो ध्यानकुठारः कर्मतरुस्कन्धविदारणत्वात् । भववृक्षं संसारतरुमिति शेषः । १ मारणकुण्डं । २ अत्र डलयोर भेदस्तेनलस्थाने ड.। ३ तु न ख. ४ विष्टारतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy