SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । २७१ कनककलशोपरि करपल्लवौ विधृत्य मुखचुम्बनमधरपानमहं करिष्यामीति स्पर्शनेन्द्रियसुखलम्पटः, घृतपानपक्कान्नव्यञ्जनशाल्यन्नादिस्वादमहं ग्रहीष्यामि, कर्पूरकस्तूरीचन्दनागुरुपुष्पादिपरिमलपानं विधास्यामि, स्तनजघनवदनविलोचनविलोकनं प्रणेष्यामि, वीणावंशस्वरमण्डलनवयौवनकामिनीगीतमिश्रं रवं श्रोष्यामीति पंचेन्द्रियविषयमाकांक्षन् व्याकुलोऽयं जीवो भवति । तत्सर्वं पूर्वमनन्तशोऽनुभूतमेव संसारे, न किमपि दुर्लभं वर्तते अन्यत्रात्मस्वरूपसमुत्पन्नसुखामृतपानात् । तथा चोक्तं अदृष्टं किं किमस्पृष्टं किमनाघ्रातमश्रुतं । किमनास्वादितं येन पुनर्नवमिवेक्ष्यते ॥१॥ तथा चअङ्गं यद्यपि योषितां प्रविलसत्तारुण्यलावण्यव द्भषावत्तदपि प्रमोदजनकं मूढात्मनां नो सताम् । उच्छन्नैर्बहुभिः शवैरतितरां कीर्ण श्मशानस्थलं लब्ध्वा तुष्यति कृष्णकाकतिकरो नो राजहंसव्रजः॥१॥ तथा चसमसुखशीलितमनसामशनमपि द्वेषमति किमु कामाः। स्थलमपि दहति झषाणां किमङ्ग ! पुनरङ्गमगाराः ॥१॥ इत्यमृतचन्द्रः । तथा च शुभचन्द्रभगवान्वरमालिङ्गिता क्रुद्धा चलल्लोलात्र सर्पिणी। न पुनः कौतुकेनापि नारी नरकपद्धतिः॥१॥ तथा च शुभचन्द्रःमालतीव मृदन्यासां विद्धि चाङ्गानि योषितां । दारयिष्यन्ति मर्माणि विपाके ज्ञास्यसि स्वयं ॥१॥ १ तथा चोक्तं. क. । २ उच्छूनैः ख. । ३ विद्धयङ्गानि च योषितांख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy