SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २६८ षट्प्राभृतेगुणिताः सप्तत्यधिकद्वेशते । आहारभयमैथुनपरिग्रहचतसृसंज्ञाभिर्गुणिता अशीत्यधिकं सहस्रं । अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनचतुकषोडशकषायैर्गुणिता अशीत्यधिकद्विशतान सप्तदशसहस्राणि भवन्तीति चेतनसम्बन्धिभेदाः । ७२०+१७२८०=१८००० । ___ अथ चतुरशीतिलक्षगुणा वित्रियन्ते । तद्यथा-हिंसा, अनृतं, स्तेयं, मैथुनं, परिग्रहः, क्रोधः, मानः, माया, लोभः, जुगुप्सा: भयं, अरतिः, रतिः, मनोदुष्टत्वं, वचनदुष्टत्वं, कायदुष्टत्वं, मिथ्यात्वं, प्रमादः पिशुनत्वं, अज्ञान, इन्द्रियानिग्रहत्वं, एकविंशतिदोषा वर्जनीयाः । अतिक्रमव्यतिक्रमातिचारानाचारा एते चत्वारो दोषा वय॑न्ते। अतिक्रमो मानसशुद्धहानिर्व्यतिक्रमो यो विषयाभिलाषः। तथातिचारः करणालसत्वं भंगो ह्यनाचारःइह व्रतानां ॥१॥ गुणानां चतुरशीतिर्भवति । सा चतुरशीतिर्दशकीयसंयमैगुणिता चतुरशीतिशतानि भवन्ति । ते दशशीलविराधनैर्गुणिताः चतुरशीतिसहस्राणि गुणा भवन्ति । कास्ताः शीलविराधनाः ? स्त्रीसंसर्गः १ सरसाहारः २ सुगन्धसंस्कारः ३ कोमलशयनासनं ४ शरीरमण्डनं ५ गीतवादित्रश्रवणं ६ अर्थग्रहणं ७ कुशीलसंसर्गः ८ राजसेवा ९ रात्रिसंचरणं १० । ते आकम्पितादिदशालोचनापरिहृतिभिर्दशभिर्गुणिताः चत्वारिंशत्सहस्राधिकाष्टलक्षाणि भवन्ति । ते दशभिधमैर्गुणिताश्चतुरशीतिलक्षा गुणा भवन्ति । अथ दशकायसंयमाः के ? एकेन्द्रियादिपंचेन्द्रियपर्यन्तानां जीवानां रक्षा प्राणसंयमः पंचविधः । स्पर्शनादीनां १ अष्टमनवमपृष्ठेऽपि गुणानां विवरणं आगतमस्ति । २ दशकायसंयमभेदैः पृथिव्यादिशतजीसमासैरित्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy