________________
भावप्राभृतं ।
२६७ सीलसहस्सहारस शीलसहस्राष्टादश शीलानां सहस्राणि अष्टादश भवन्ति तानि त्वं भावयेति सम्बन्धः । चतुरशीतिगुणगणानां लक्षाणि । भावहि अणुदिणु णिहिलं भावय अनुदिनं अहर्निशं निखिलं समग्रं। असप्पलावेण किं बहुणा असत्प्रलापेन मिथ्यानर्थकवचनेन बहुना बहुतरेण किं-न किमपि ।
अष्टादशशीलसहस्राणां विवरणं यथा-अशुभमनोवचनकाययोगाः शुभेन मनसा हन्यन्ते इति त्रीणि शीलानि । अशुभमनोवचनकाययोगाः शुभेन वचसा हन्यते इति षट् शीलानि । अशुभमनोवचनकाययोगाः शुभेन काययोगेन हन्यन्ते इति नव शीलानि । तानि चतसृभिः संज्ञाभिर्गुणितानि षट्त्रिंशच्छीलानि भवन्ति । तानि पंचभिरिन्द्रियजयैर्गुणितानि अशीत्यग्रशतं भवन्ति । पृथ्व्यप्तेजोवायुवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपंचेन्द्रियसइयसंज्ञिदयाभिर्दशभिर्गुणितानि अष्टादशशतानि भवन्ति । उत्तमक्षमादिभिर्दशभिर्गुणितानि अष्टादशसहस्राणि भवन्ति । अथवा अशीत्याद्विशताधिकसप्तदशसहस्राणि चैतन्यसम्बन्धीनि भवन्ति । विंशत्यधिकसप्तशतानि अचेतनसम्बन्धीनि भवन्ति । तत्राचेतनकृतभेदाः कथ्यन्ते-काष्ठ-पाषाण-लेप-कृताः स्त्रियो मनःकायकृतगुणिताः षट् । कृतकारितानुमतगुणिता अष्टादश। स्पर्शादिपंचगुणिता नवतिः। द्रव्यभावगुणिता अशीत्यग्रं शतं । कषायैश्चतुर्भिर्गुणिता विंशत्यधिकानि सप्तशतानि। चैतन्यसम्बन्धीनि अशीत्यधिकद्विशताग्रसप्तदशसहस्राणि, तद्यथा-देवी-मानुषी-तिरश्ची चेति स्त्रियस्तिस्रः कृतकारितानुमतगुणिता नव भवन्ति । मनोवचनकायगुणिताः सप्तविंशतिर्भवन्ति । स्पर्शरसगन्धवर्णशब्दैर्गुणिता: पंचत्रिंशदधिकं शतं । द्रव्यभाव१ असप्पलावेहिं. ग. घ. पुस्तके पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org