________________
२६६
षट्प्राभृते
र्नामगोत्रलक्षणं तीर्थकरत्वं । कथंभूतो जीवः, भावसुद्धिमावण्णो भावशुद्धिमापन्नः परिणामशुद्धिं प्राप्तः सद्दृष्टिजीव इत्यर्थः । दुविहपयारं बंध द्विविधप्रचारं द्वयोर्भेदयोः प्रचारं विस्तारं बध्नाति । संखेवेणेव वज्जरियं संक्षेपेणैव कथितं प्रतिपादितम् |
णाणावरणादीहिय अडविकम्मे हि वेदिओ य अहं । डहिऊण इण्हि पयडमि अणतणाणाइगुणचिंता ॥ ११७ ॥
ज्ञानावरणादिभिश्च अष्टभिः कर्मभिः वेष्टितश्चाहम् । दवेदानीं प्रकटयामि अनन्तज्ञानादिगुणचेतनां ॥
णाणावरणादीहि यज्ञानावरणादिभिश्व ज्ञानावरणमादिर्येषां दर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाणां तानि ज्ञानावरणादीनि तैज्ञानावरणादिभिः । चकारादुत्तरप्रकृतिभिरष्टचत्वारिंशदधिकशतप्रकृतिभिः । तथा उत्तरोत्तरप्रकृतिभिरसंख्याताभिरहं वेष्टित इति सम्बन्धः । अविकम्मेहि वेदिओ य अहं अष्टभिरपि कर्मभिर्वेष्टितश्चाहं । अपिचशब्दादनन्तानन्तकर्मभिरहं वेष्टितो वर्ते । डहिऊण इण्हि पयमि दग्ध्वा भस्मीकृत्य तानि कर्माणि इत्युपस्कारः । इण्हि - इदानीं, प्रकटयामि । अनंतणाणाइगुणचिंता अनन्तज्ञानादिगुणचेतनामिति तात्पर्यम् ।
I
सीलसहस्सारस चउरासीगुणगणाण लक्खाई । भावहि अणुदिणु णिहिलं असप्पलावेण किं बहुणा ॥ ११८ ॥ शीलसहस्राष्टादश चतुरशीतिगुणगणानां लक्षाणि ।
भावय अनुदिनं निखिलं असत्प्रलापेन किं बहुना ॥
१ अट्ठविह इति क . पुस्तके मूलगाथापाठः । ख. पुस्तके, क. ख. पुस्तकयस्य टीकायां च अट्ठवि इति पाठः । ग. घ. पुस्तके तु अहिं इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org