________________
भावप्राभतं ।
२६५
मुक्खो जिणसासणे दिहो मोक्षः सर्वकर्मप्रक्षयलक्षणोपलक्षितं परमनिर्वाणं जिनशासने श्रीमद्भगवदर्हत्सर्वज्ञवीतरागमते दृष्टः प्रतिपादितः परिणामादेवेति निश्चयः, स मोक्षकारणभूतः परिणाम आत्मन्येकलोलीभाव इति भावार्थः ।
मिच्छत्त तह कसायाऽसंजमजोगेहि असुहलेसेहिं । बंधइ असुहं कम्मं जिणवयणपरम्मुहो जीवो ॥ ११५ ॥
मिथ्यात्वं तथा कषया असंयमयोगैरशुभलेश्यैः ।।
बध्नाति अशुभं कर्म जिनवचनपराङ्मुखो जीवः ॥ मिच्छत्त तह कसाया मिथ्यात्वं पंचविधं तथा तेनैव पंचप्रकारमिथ्यात्वप्रकारेण कषायाः पंचविंशतिभेदाः । असंजमजोगेहि असुहलेसेहिं असंयमो द्वादशविधः, योगा: पंचदशभेदाः, एवं सप्तपंचाशत्कर्मबन्धप्रत्ययाः कारणानि आस्त्रवभेदा भवन्तीति संक्षेपार्थः । कथंभूतैरेतैरास्रवैः, अशुभलेश्यैः कृष्णनीलकापोतलेश्याबलेन संजातैः । बंधइ असुहं कम्मं बध्नाति अशुभं कर्म । जिणवयणपरम्मुहो जीवो जिनवचनपराङ्मुखो जीवो मिथ्यादृष्टिरात्मा ।
तं विवरीओ बंधइ सुहकम्मं भावसुद्धिमावण्णो । दुविहपयारं बंधइ संखेवेणेवं वैजरियं ॥ ११६ ॥
तद्विपरीतः बध्नाति शुभकर्म भावशुद्धिमापन्नः।
द्विविधप्रचारं बध्नाति संक्षेपेणैव कथितं ॥ तं विवरीओ बंधइ तस्माजिनवचनपराङ्मुखान्मिथ्यादृष्टिजीवाद्विपरीतः सम्यग्दृष्टिजीवः बध्नाति, किं ? शुभकर्म-पुण्यकर्म-सद्वेद्य शुभायु
१ संखेवेण जिणेण वज्जरियं. ग. पुस्तके पाठः । संखेवें जिणेण वज्जरियं घ. पुस्तके पाठः । २ "कथेर्वज्जर-पजर-सग्घ-सास-साह-चव-जप्प-पिसुणबोलोव्वालाः।" इत्यनेन एतेषु दशादेशेषु कथयतेर्वज्जरादेशो जातः ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org