________________
२६४
षट्प्राभृतेपापं पचति अशेषं पुण्यमशेषं च पचति परिणामः ।
परिणामाद्वन्धः मोक्षो जिनशासने दृष्टः ॥ पावं पयइ असेसं पापं पचति अशेष, सर्व पापं परिणामः पचति निर्जरयति निजात्मपरिणामो भावना निःशेषं पापं दूरीकरोति । उक्तं च--
नाममात्रकथया परात्मनो भूग्जिन्मकृतपापसंक्षयः। बोधवृत्तरुचयस्तु तद्गताः कुर्वते हि जगतां पतिं नरम् ॥१॥ पुण्णमसेसं च पयइ परिणामो पुण्यं अशेषं सर्वं च सर्वमपि पचति विस्तारयति मेलयति, कोऽसौ ? परिणामः निजशुद्धबुद्घकस्वभावात्मभावना जिनसम्यक्त्वं च । तथा चोक्तं.
एकापि समर्थेयं जिनभक्तिर्दुर्गति निवारयितुम् ।
पुण्यानि च पूरयितुं दातुं मुक्तिश्रियं कृतिनः ॥१॥ सद्वेद्य शुभायुर्नामगोत्रलक्षणं तीर्थकरनामकर्मासाधारणपुण्यं परिणामेनैवोपाय॑त इत्यर्थः । तथा चोक्तं
परिणाममेव कारणमाहुः खलु पुण्यपापयोनिपुणाः । तस्मात्पुण्योपचयः पापापचयश्च सुविधेयः॥१॥ तथा च समयसारः--
आत्मकृतं परिणाम निमित्तमात्रं प्रपद्य पुनरन्ये । स्वयमेव परिणमन्तेऽत्र पुद्गलाः कर्मभावेन ॥१॥ परिणामादो बंधो परिणामाद्वन्धः प्रकृतिस्थित्यनुभागप्रदेशलक्षणश्चतुर्विधो बन्धः-पुण्यसम्बन्धी पापसम्बन्धी च बन्धः संजायते। उक्तं च--
पयडिटिदिअणुभागप्पदेसबंधा दुचदुविधो बंधो। जोगा पयडिपदेसा ठिदिअणुभागा कसायदो होति ॥ १ ॥ १ पुरुषार्थसिद्धयुपायस्यैवेतनामान्तरं । २ प्रकृतिस्थित्यनुभागप्रदेशबन्धात्तु चतुर्विधो बन्धः । योगात् प्रकृतिप्रदेशौ स्थित्यनुभागौ कषायतो भवतः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org