SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । २६३ रागजनकः, शस्त्रविषकण्टकशत्रुप्रभृतिद्वेषकारकपुद्गलपर्यायः । सोऽध्यास्रवनिमित्तः कर्मबन्धकारणं शुद्ध आहारादिर्गृहीतः शुद्धध्यानाध्ययनकारणत्वात् संवरनिर्जराकारणत्वात् सोऽपि मोक्षप्रत्ययः, अशुद्ध आहारो गृहीतः चर्मादिस्पृष्टतया दुर्ध्यानोत्पादकत्वादास्रवबन्धकारणं । इत्यादि पुद्गलस्य हेयोपादेययुक्तितया विचारो ज्ञातव्यः । अथवा पुद्गलद्रव्यमेव जीवस्य बन्धकारणत्वाद्दुःखकारणं परमार्थतया हेय एव । धर्मस्तु नरकादिगतिसहायकारकत्वाद्धेयः स्वर्गमोक्षगतिकारकत्वादुपादेयः । अधर्मस्तु स्वर्गमोक्षस्थानादौ मुनीनां ध्यानाध्ययनादिकाले स्थितिहेतुत्वादुपादेयः । नरकनिकोतादिस्थितिकारणत्वे हेयः । कालस्तु स्वर्गमोक्षादौ वर्तनाप्रत्ययत्वादुपादेयः, नरकादिपर्यायवर्तनाकारणत्वाद्धेयः । आकाशः समवशरणस्वर्गमोक्षादाववकाशदायक गुणत्वादुपादेयः । नरकनिगोदादिस्थानावकाशदानदायकत्वाद्धेयः । निर्निदान विशिष्टतीर्थंकरनामकर्मास्रव उपादेयो मोक्षहेतुत्वात् । नरकादिगर्तादिनिपातहेतुत्वादन्य आस्रवो हेयः । तीर्थकरनामकर्महेतुश्चतुर्विधोऽपि बन्ध उपादेयः, संसारपर्यटनकारीतरो बन्धो हेयः । संवर उपादेयः । निर्जरा चोपादेया मुनीनां सम्बन्धिनी । मोक्षः सवर्थाप्युपादेयोऽनन्तज्ञानादिचतुष्टयकारणत्वादिति सप्ततत्वानि यावन्न भावयति । जाव ण चिंते चिंतणीयाई यावन्न चिन्तयति चिन्तनयानि धर्म्यशुक्लध्यानानि अनुप्रेक्षादीनि च । ताव ण पावइ जीवो तावन्न प्राप्नोति जीव आत्मा । जरमरणविवज्जियं ठाणं जरामरणवेवर्जितं स्थानं परमनिर्वाणपदमिति शेषः । 1 पावं पर्यs असेसं पुण्णमसेसं च पयइ परिणामो । परिणामादो बंधो मुक्खो जिणसासणे दिट्ठो ॥ ११४ ॥ १ हवइ इति पाठान्तरं क्वचित्स्थाने | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy