________________
२६२
षट्प्राभूतेयोगा उत्तरगुणाः कथ्यन्ते । पालहि भावविसुद्धो ( पालय भावविशुद्धः ) तत्वभावनानिर्मलमनाः सन्निति भावः । पूयालाहं नईहतो पूजालाभख्यात्यादिकमनीहमानोऽनिच्छन्निति शेषः ।।
भावहि पढम तचं विदियं तदियं चउत्थपंचमयं । तियरणसुद्धो अप्पं अणाइणिहणं तिवग्गहरं ॥ ११२ ॥
भावय प्रथमं तत्वं द्वितीयं तृतीयं चतुर्थपञ्चमकम् ।
त्रिकरणशुद्धः आत्मानं अनादिनिधनं त्रिवर्गहरम् ॥ भावहि पढमं तच्चं भावय हे जीव ! त्वं श्रद्धेहि, किं तत् ? प्रथमं तत्वं जीवतत्वं । विदियं द्वितीयं तत्वमजीवसंझं पुद्गलधर्माधर्मकालाकाशलक्षणं । तदियं तृतीयं तत्वं आस्रवनामधेयं । चउत्थपंचमयं चतुर्थ बन्धनामधेयं, पंचमकं तत्वं संवराभिधानं, निर्जरा षष्ठं तत्वं, मोक्षः सप्तमं तत्वं । तिरयणसुद्धो अप्पं त्रिकरणशुद्धः सन्नात्मानं भावय, अल्पं वा स्तोककालं अन्तर्मुहूर्तकालं | कथंभूतमात्मानं, अणाइणिहणं अनादिनिधनं आद्यन्तरहितं । तिवग्गहरं धर्मार्थकामवर्गत्रयवर्जितं सर्वकर्मक्षयलक्षणमोक्षसहितं निश्चयात् ।
जाव ण भावइ तचं जाव ण चिंतेइ चिंतणीयाई । ताव ण पावइ जीवो जरमरणविवज्जियं ठाणं ॥११३॥
यावन्न भावयति तत्वं यावन चिन्तयति चिन्तनीयानि ।
तावन्न प्राप्नोति जीवः जरामरणविवर्जितं स्थानम् ॥ जाव ण भावइ तचं यावत्कालं न भावयति, किं ? तत्वं सप्तसंख्यं जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षलक्षणं,तन्मध्ये निजात्मतत्वं मोक्षकारणं अपरे जीवाः शुद्धबुद्ध कस्वभावा निजात्मा च । अजीवतत्वं पुद्गलो धर्मोऽ. धर्मः काल आकाशश्च । तत्रेष्टस्रग्बनितादिरूपः पुद्गलपर्यायो मोहोत्पादको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org