SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । २६१ तस्य शुद्धिमापन्नः प्राप्तः । बाहिरलिंगमकज्जं बहिलिंगं पूर्वोक्तं चतुर्विधलिंगमकार्य मोक्षदायकं न भवति । होइ फुडं भावरहियाणं अकार्य भवति स्फुटमिति निश्चयेन भावरहितानां मिथ्यादृष्टीनां दिगम्बराणां । आहारभयपरिग्गहमेहुणसण्णाहि मोहिओसि तुमं । भमिओ संसारवणे अणाइकालं अणप्पवसो ॥ ११० ॥ आहारभयपरिग्रहमैथुनसंज्ञामिः मोहितोसि त्वम् । भ्रमितः संसारवने अनादिकालमनात्मवशः ॥ आहारभयपरिग्गहमेहुणसण्णाहि मोहिओसि तुमं आहारभयपरिग्रहमैथुनसंज्ञाभिर्मोहित आत्मरूपाच्चालितः प्रचलितः प्रच्युतः, असि-भवसि, तुम-त्वं हे जीव !। भमिओ संसारवणे भ्रान्तः पर्यटीस्त्वं संसारखने नरकतिर्यक्कुमनुष्यकुत्सितदेवगहने । अणाइकालं अनादिकालं पूर्वकाले । अणप्पवसो अनात्मवशः, न आत्मा मनो वशे यस्य सोऽनात्मवशः विषयकषायान्यायरंजितहृदय इत्यर्थः । बाहिरसयणत्तावणतरुमूलाईणि उत्तरगुणाणि । पालहि भावविसुद्धो पूयालाहं नईहंतो ॥ १११ ॥ बहिःशयनातपनतरुमूलादीन् उत्तरगुणान् ।। पालय भावविशुद्धः पूजालाभं अनीहमानः ॥ बाहिरसयणत्तावणतरुमूलाईणि उत्तरगुणाणि बहिःशयनातपनतरुमूलादीन् उत्तरगुणान् पालयेति सम्बन्धः । शीतकालेऽनावृतस्थाने स्थितिं कुरु । उष्णकाले आतपनयोगं धर । वर्षाकाले तरुमूले तिष्ठ । वृक्षपर्णोपरि पतित्वा यज्जलं यत्युपरि पतति तस्य प्रासुकत्वाद्विराधनाsप्कायिकानां जीवानां न भवति द्विगुणं वर्षाकष्टं च भवतीति कारणात वर्षाकाले तरुमूलस्थितरुपयोगः, अन्यथा कातरत्वप्रसक्तेः। एते त्रयोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy