________________
२६०
षट्प्राभृते
नैर्ग्रन्थ्यं सारं । रात्रिभोजनमसारं, दिवाभोजनमेकभक्तं प्रत्युत्पन्नं प्रासुकं सारं । आर्त्तरौद्रध्यानमसारं, धर्म्य शुक्लध्यानं सारं । कृष्णनीलकपोतलेश्या असारं, तेज:पद्मशुक्ललेश्याः सारं | आरंभोऽसारं, अनारंभः सारं । असंयमोऽसारं, संयमः सारं । सग्रन्थोऽसारं, निग्रन्थः सारं । सचेलोऽसारं, निश्चेल: सारं । अलोचोऽसारं, लोचः सारं । स्नानं असारं, अस्नानं मलधारणं सारं । अभूमिशयनं असारं, भूमिशयनं सारं । दन्तधावनं असारं, अदन्तघर्षणं सारं । उपविश्य भोजनं असारं, उद्भभोजनं सारं । भाजने भोजनं असारं, पाणिपात्रे भोजनं सारं । क्रोधोऽसारं, क्षमा सारं । मानोऽसारं, मार्दवं सारं । मायाऽसारं, आर्जवं सारं । लोभोऽसारं, सन्तोषः सारं । अतपोऽसारं, द्वादशविधं तपः सारं । मिथ्यात्वं असारं, सम्यक्त्वं सारं । अशीलं असारं, शीलं सारं । सशल्योsसारं, निशल्यः सारं । अविनयोऽसारं, विनयः सारं । अनाचारा - सारं, आचारः सारं । उन्मार्गोऽसारं जिनमार्गः सारं । अक्षमा असारं, क्षमा सारं । अगुप्तिः असारं, गुप्तिः सारं । अमुक्तिः असारं, मुक्तिः सारं । असमाधिः असारं, समाधिः सारं । ममत्वं असारं, निर्ममत्वं सारं । यद्भावितं तदसारं, यन्न भावितं तत्सारं । इति सारासाराणि ज्ञातव्यानि ।
सेवहि चविहलिंगं अब्भंतरलिंगसुद्धिमावण्णो । बाहिरलिंगमकज्जं होइ फुडं भावरहियाणं ॥ १०९ ॥ सेवस्व चतुर्विधलिङ्गं अभ्यंतरलिङ्गशुद्धिमापन्नः । बाह्यलिङ्गमकार्यं भवति स्फुटं भावरहितानां ॥
सेवहि चउविहलिंगं सेवस्व हे मुने ! चतुर्विधं लिंगं शिरःकेशमुखश्मश्रुलोचोऽधःकेशरक्षणं चतुर्विधमिदं लिंगं पिच्छकुण्डीद्वयग्रहः । अब्भंतरलिंगसुद्धिमावण्णो अभ्यन्तरलिंगं जिनसम्यक्त्वं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International