________________
भावप्राभृतं ।
२५९
भावहि अवियार दंसणविसुद्धो दीक्षाकाले दारिद्र्यकाले रोगादिकाले च ये भावास्त्वया भाविता धर्माश्रयणपरिणामास्तान् भावान् है जीव ! सदाकालमपि त्वं भावय, हे अवियार - हे अविचार निर्विवेकजीव ! अथवा हे अविकार रागद्वेषमोहादिदुष्परिणामवर्जितजीव ! । कथंभूतः सन् भावय, दंसणत्रिसुद्धो-सम्यक्त्वकौस्तुभशोभितनिर्मलहृदयः सन् भावय । अथवा अवियारदंसणविसुद्ध इत्येकमेव पदं । तत्रायमर्थः - अविकारं पंचविंशतिदोषरहितं यद्दर्शनं सम्यक्त्वरत्नं तेन विशुद्धोऽ. नन्तभवपापरहितुः । किमर्थे भावय, उत्तमबोहिनिमित्तं उत्तमा गणधरचक्रधर कुलिशधर भव्यवरपुण्डरीकैः पूज्यत्वात् उत्तमा चासौ बोधिः 1. तन्निमित्तं उत्तमबोधिनिमित्तं । असारसाराई मुणिऊण असाराणि साराणि च मुनित्वा ज्ञात्वा । उक्तं च—
अथिरेण थिरांमलिणेण निम्मला निग्गुणेण गुणसारा । कारण जा विढप्पइ सा किरिया किं न कायव्वा ॥ १ ॥ अनालोचितं असारं, आलोचितं सारं । परनिन्दा असारं, निजनिन्दा सारं आत्मदोषाणां गुरोरमेऽप्रकथनं असारं, गुर्वग्रे निजदोषकथनं सारं । अप्रतिक्रमणं असारं, प्रतिक्रमणं सारं । विराधनं असारं, आराधनं सारं । अज्ञानं असारं, सम्यग्ज्ञानं सारं । मिथ्यादर्शनं असारं, सम्यग्दर्शनं सारं । कुचरित्रं असारं, सच्चरित्रं सारं । कुतपः असारं, सुतपः सारं । अकृत्यं असारं कृत्यं सारं । प्राणातिपातोऽसारं, अभयदानं सारं । मृषावादोऽसारः, सत्यं सारं । अदत्तादानं असारं, दत्तं कल्प्यं च सारं । मैथुनं असारं, ब्रह्मचर्यं सारं । परिग्रहोSसारं, १ अस्थिरेण स्थिरमनसा निर्मला निर्गुणेन गुणसारा । कायेन या विधीयते सा क्रिया किं न कर्तव्या ॥
"
२ थिरामणेण ख.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org