________________
२५८
षट्प्राभृते
दिक्खाकालाईयं भावहि अवियार दंसणविसुद्धो । उत्तमबोहिनिमित्तं असारसाराई मुणिऊण ॥ १०८ ॥
दीक्षाकालादीयं भावय अविचार ! दर्शनविशुद्धः । उत्तमबोधिनिमित्तं असारसाराणि ज्ञात्वा ॥
दिक्खाकालाईयं दीक्षाकाले खलु जीवस्य परमवैराग्यं भवति, दीक्षाकाल आदिर्यस्य रोगोत्पत्तिप्रभृतिकालस्य स दीक्षाकालादिः दीक्षाकालादौ भवो दीक्षाकालादीयो भावस्तं दीक्षाकालादीयं निजपरिणामविशेषं हे जीव आत्मन् ! हे चैतन्य ! हे मुने ! त्वं । भावहि - भावय तं परिणामं त्वं स्मर । यदहमद्यप्रभृति वनितामुखं न पश्यामि, वनितासु रक्तोऽहमनादिकाले संसारे पर्यटतोऽवाञ्छितमेव दुःखं प्राप्तः, अहर्निशमाकांक्षन्नपि सुखलेशं न लब्धवान् । तदुक्तं
अजाकृपाणीयमनुष्ठितं त्वया विकल्पमूढेन भवादितः पुरा । यदत्र किंचित्सुखलेशमाप्यते
तदार्य ! विद्धयन्धकवर्तकीयकम् ॥ १ ॥
अन्यच्च
संसारे नरकादिषु स्मृतिपथेऽप्युद्वेगकारीण्यलं
दुःखानि प्रतिसेवितानि भवता तान्येवमेवासताम् । तत्तवत् स्मरसि स्मरस्मितशितापाङ्गैरनङ्गायुधैवमानां हिमदग्धमुग्धतरुवद्यत्प्राप्तवान्निर्धनः ॥ १ ॥ आतङ्कपावकशिखाः सरसावलेखाः
स्वस्थे मनाङ्मनसि ते लघु विस्मरन्ति । तत्कालजातमतिविस्फुरितानि पश्चा जीवान्यथा यदि भवन्ति कुतोऽप्रियं ते ॥ १ ॥
१ तत्तस्मात्स्मरसस्मर इति पुस्तके पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org