________________
भावप्राभतं ।
२५७
राणां भावनव्यन्तरज्योतिष्ककल्पवासिनां कल्पातीतानां च, नराणां भूमिगोचरनृपादीनां च । पसंसणीओ प्रशंसनीयः स्तवनीयः स्तोतव्यः संस्कृत-प्राकृत-अपभ्रंश-सौरसेनी-मागधी-पैशाची-चूलिकापैशाचीबद्धगद्यपद्यानवद्यस्तुतिभिर्विशेषेणाभिवादनीयः । धुवं होइ ध्रुवं निश्चयेन भवति । अत्र संदेहो नास्ति । क्षमावान् मुनिस्तीर्थकरो भवतीति भावार्थः ।
इय णाऊण खमागुण खमेहि तिविहेण सयलजीवाणं । चिरसंचियकोहसिहि वरखमसलिलेण सिंचेह॥१०७॥
इति ज्ञात्वा क्षमागुण ! क्षमस्व त्रिविधेन सकलजीवान् ।
चिरसंचितक्रोधशिखिनं वरक्षमासलिलेन सिञ्च ॥ इय णाऊण इति पूर्वोक्ततीर्थकरपदप्रापकं क्षमाफलं ज्ञात्वा विज्ञाय । खमागुण हे क्षमागुण ! चतुरशीतिशतसहस्रगुणानां मध्ये प्रधानक्षमागुण हे मुने ! । खमेहि क्षमस्व । तिविहेण मनोवचनकायलक्षणत्रिप्रकारेण । सयलजीवाणं सकलजीवान् एकेन्द्रियादिपंचेन्द्रियपर्यन्तान् । चिरसंचियकोहसिहिं चिरं दीर्घकालं संचितः पुष्टितः पुष्टिं नीतः क्रोध एव शिखी वैश्वानरः दाहसन्तापकारकत्वात् तं क्रोधशिखिनं कोपाग्निं । वरखमसलिलेण सिंचेह वरा उत्तमा क्षमा सर्वसहनधर्मः सैव सलिलं पानीयमुदकं आयु:स्थिरीकरणमनःप्रसादजनकत्वात् तेन वरक्षमासलिलेन कृत्वा सिंच त्वं विध्यापय । उक्तं च---
आकृष्टोऽहं हतो नैव हतो वा न द्विधाकृतः। मारितो न हतो धर्मो मदीयोऽनेन बन्धुना ॥१॥ चित्तस्थमप्यनवबुद्धय हरेण जाड्या
त्ध्वा बहिः किमपि दग्धमनङ्गबुद्धया । घोरामवाप स हि तेन कृतामवस्थां
क्रोधोदयाद्भवति कस्य न कार्यहानिः ॥२॥ षट् १७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org