________________
२५६
षट्प्राभूतं
दुज्जणवयणचडकं निहुरकइयं सहंति सप्पुरिसा । कम्ममलणासणडं भावेण य णिम्ममा सवणा ।। १०५ ।।
दुर्जनवचनचपेटां निष्ठुरकटुकं सहन्ते सत्पुरुषाः । कर्ममलनाशनार्थ भावेन च निर्ममाः श्रवणाः ॥
दुज्जणवयणचडक्कं दुर्जनानां गुरुदेवनिन्दकानां मिध्यादृष्टीनां नामश्रावकाणां च वचनमेव चपेटा तां । कथभूतां, निहुरकडुयं निष्ठुरा- निर्दया, कटुका- कर्णशूलप्राया निष्ठुरकटुका तां निष्ठुरकटुकां । सहति सप्पुरिसा सहन्ते सत्पुरुषा महामुनयो दिगम्बराः, सद्दृष्टयो गृहस्थाश्च । किमर्थे सहन्ते ? कम्ममलणासणहं कर्माणि ज्ञानावरणादीनि, मलानि अतिचाराश्च तेषां नाशनार्थं क्षयार्थं परमनिर्वाणप्राप्त्यर्थं च । भावेण य णिम्ममा सवणा भावेन जिनसम्यक्त्ववासनया निर्ममा ममेत्यकारान्तमव्ययशब्दः, ममत्वरहिताः श्रवणा दिगम्बरा महामुनयः ।
पावं खवड असेसं खमाए परिमंडिओ य मुणिपवरो । खेयरअमरनराणं पसंसणीओ धुवं होइ ॥ १०६॥
पापं क्षिपति अशेषं क्षमया परिमण्डितश्च मुनिप्रवरः । खेचरामरनराणां प्रशंसनीयो ध्रुवं भवति ॥
पावं खवइ असे पापं त्रिषष्टिप्रकृतिलक्षणं क्षिपते, अशेषं द्वासततित्रयोदशप्रकृतिरूपमघातिकर्मलक्षणं च प्रकृतिसमुदायं च क्षिपते । कया, खमाए क्षमया पार्श्वनाथवत् उत्तमक्षमालक्षणपरिणामेन । परिमंडिओ य परि समन्तान्मनोवचनकायप्रकारेण मंडित: शोभितश्च 1 मुणिपवरो मुनिप्रवरो मुनीनां श्रेष्ठः । चकार उक्तसमुच्चयार्थः । तेनान्योऽपि कोऽपि गृहस्थोऽपि क्षमापरिणामेन स्वर्गं गत्वा पारंपर्येण मोक्षं याति इति ज्ञातव्यं । खेयरअमरनराणं खेचराणां विद्याधराणां, अम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org