________________
२५५
भावप्राभृतं । निजशक्त्या महायशः ! भक्तिरागेण नित्यकाले।
त्वं कुरु जिनभक्तिपरं वैयावृत्यं दशविकल्पम् ॥ णियसत्तीए महाजस एकारस्योच्चारलाघवादत्र पादे द्वादशैव मात्रा वेदितव्याः । अन्यथा त्रयोदशमात्रासद्भावाद्गाथाछन्दोभंगः स्यात् । तदुक्तं प्राकृतव्याकरणे
" उच्चारलघुत्वमेदोतोयंजनस्थयोः" निजशक्त्या हे महायशः ! । भत्तीराएण णिचकालम्मि भक्तिरागेण नित्यकाले । तं कुण त्वं कुरु । जिणभत्तिपरं जिनभक्तौ परमुत्कृष्टं । विज्जावच्चं वैयावृत्यं । दसवियप्पं दशविकल्पं दशभेदं आचार्यादीनां पूर्वोक्तानाम् ।
जं किंचि कयं दोसं मणवयकाएहिं असुहभावेणं । तं गरहि गुरुसयासे गारव मायं च मोत्तूण ॥ १०४॥
यः कश्चित् कृतो दोषः मनवचनकायैः अशुभभावेन ।
तं गर्ह गुरुशकासे गारवं मायां च मुक्त्वा ।। जं किचि कयं दोसं यः कश्चित्कृतो दोषः व्रतादिष्वतीचारः । मणक्यकाएहिं असुहभावणं मनोवचनकायैरशुभभावेन रागद्वेषमोहादिदुष्परिणामेन । तं-दोषमतीचारादिकं, गर्ह-प्रकाशय। गुरुसयासे गुरुशकासे गुरुपाचँ आचार्यबालाचार्यपादमूले । गारव मायं च मोत्तण गारवं रसर्द्धिशब्दसातगर्व मुक्त्वा, मायां च मुक्त्वा कपटं परिहृत्य । आलोचनादशदोषान् भगवत्याराधनाकथितान् विहाय । तदुक्तं
आकंपिय अणुमाणिय, जं दिह्र बादरं च सुहमं च । छन्नं सद्दाउलयं, बहुजणमव्वत्त तस्सेवी ॥१॥ "तुमत्तुआणतूणाश्चतुष्कं क्त्वायाः" १ इत्यनेन मोतूण इत्यत्र क्त्वायाः तूणादेशः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org