________________
२५४
षटप्राभते
कन्दं मूलं बीजं पुष्पं पत्रादि किंचित् सचित्तम् ।
अशित्वा मानगवे भ्रमितोसि अनन्तसंसारे ॥ कंदं सूरणं लशुनं पलाण्डु क्षुद्रवृहन्मुस्तां शालूकं उत्पलमूलं शृङ्गवेरं आर्द्रवरवर्णिनी आर्दहरिद्रेत्यर्थः । मूलं हस्तिदन्तकं मूलकमित्यर्थः । नारंगकंटकं गाजरमित्यर्थ । बीयं चणकादिकं । पुप्फ पुष्पं सेवत्रीपुष्पं करणबीजपूरपुष्पं । पत्तादि नागवल्लीदलं । किंचि सच्चित्तं किमपि ऐर्वािदिकं । असिऊण माणगव्वे अंशित्वा भक्षयित्वा मानेन मान्यतया गर्वे सति। भमिओसि अणंतसंसारे भ्रमितस्त्वं हे जीव ! अनन्तसंसारे अपर्यन्तभवसंकटे इति भावः ।
विणयं पंचपयारं पालहि मणवयणकायजोएण । अविणयणरा सुविहियं तत्तो मुत्तिं न पावंति ॥१०२॥ विनयं पंचप्रकारं पालय मनोवचनकाययोगेन ।
अविनतनराः सुविहितां ततो मुक्तिं न प्राप्नुवन्ति ॥ . विणयं पंचपयारं विनयं यथायोग्यं करयोटन-पादपतन-अभ्युत्थान. स्वागत-भाषणादिकं पंचप्रकारं ज्ञानस्य, दर्शनस्य, चारित्रस्य, तपसश्च विनयं विनीतत्वं, उपचारलक्षणं पंचमं विनयं । हे आत्मन् ! हे मुने ! हे जीव ! हे आसन्नभव्य ! सर्वोपकारिस्त्वं । पालहि प्रतिपालय कुर्विति । मणवयणकायजोएण मनोवचनकाययोगेन आत्मव्यापारेण । अविणय. णरा सुविहियं अविनयनरा अविनतनरा वा सुविहितां तीर्थकरनामकर्मपूर्वकबन्धविशिष्टां । तत्तो मुत्तिं न पावंति ततः कारणान्मुक्तिं सर्वकर्मक्षयलक्षणोपलक्षितां न प्राप्नुवन्ति नैव लभन्ते ।
णियसत्तीए महाजस भत्तीराएण णिच्चकालम्मि । तं कुण जिणभत्तिपरं विज्जावच्चं दसवियप्पं ॥ १०३॥
१ वालुका।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org