________________
भावप्राभतं ।
२५३
रसपूयास्थिमांसासृक्चर्मामेध्यादिवीक्षणं । काकाद्यमेध्यपातोऽढ़े वमनं स्वस्य रोधनं ।। ५॥ अश्रुपातश्च दुःखेन पिंडपातश्च हस्ततः । काकादिपिण्डहरणं पतनं त्यक्तसेवनम्॥६॥ पादान्तरालारपंचाक्षजातिपंचेन्द्रियात्ययः। स्वोदर कृमिविण्मूत्ररक्तपूयादिनिर्गमः ॥७॥ निष्ठीवनं सदंष्ट्राङ्गिदशनं चोपवेशनं । पाणिवक्त्रेऽत्र साङ्गास्थिनखरोमादिदर्शनम् ॥ ८॥ प्रहारो ग्रामदाहोऽशुभोग्रबीभत्सवाक्छृतिः। उपसर्गः पतनं पात्रस्यायोग्यगृहवेशनम् ॥९॥ जानुदेहादधःस्पर्शश्चेत्येवं बहवो मताः।। लोकसंयमवैराग्यजुगुप्साभवभीतिजाः॥१०॥॥ ज्ञात्वा योग्यमयोग्यं च द्रव्यं क्षेत्रत्रयाश्रयं । चरत्येवं प्रयत्नेन भिक्षाशुद्धियुतो यतिः ॥११॥ सञ्चित्तभत्तपाणं गिद्धी दप्पेणऽधी पभुत्तूण । पत्तोसि तिव्वदुक्खं अणाइकालेण तं चित्त ॥१०॥
सचित्तभक्तपानं गृद्धया दर्पण अधीः प्रभुक्त्वा ।
प्राप्तोसि तीव्रदुःखं अनादिकालेन त्वं चित्त ! ॥ सच्चित्तभत्तपाणं सचित्तभक्तपानमप्रासुकभोजनजलादिकं। गिद्धी दप्पेण गृद्धयातिकांक्षया दर्पण उत्कटत्वेन । अधी बुद्धिहीनः । पभुत्तूण प्रकर्षेण भुक्त्वा । पत्तोसि तिव्वदुक्खं प्राप्तोऽसि प्राप्तो भवसि किं तत् ? तिव्वदुक्खं-तीव्रमसातं नरकादिदुःखमित्यर्थः । कियत्पर्यन्तं दुःखं प्राप्तोऽसि ? अणाइकालेण अनादिकालेन आसंसारं यावत् । कः प्राप्तो दुःखं ? तं त्वं भवान् । हे चित्त हे आत्मन् ! ।
कंदं मूलं बीयं पुप्फ पत्तादि किंचि सच्चित्तं ।
असिऊण माणगव्वे भमिओसि अणंतसंसारे ।। १०१॥ १ गतिः इत्यपि पाठान्तरमन्यत्र । जातिः इति क. पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org