________________
२५२
षट्प्राभूतेआगमे व्यवहार उच्यते (६) दातृदोषाः कथ्यन्ते-निर्वस्त्रः शौण्डः पिशाचः अन्धः पतितः मृतकानुगः तीव्ररोगी व्रणी लिंगी नीचस्थानस्थितः उच्चस्थानस्थित आसन्नगर्भिणी कोऽर्थः ? निकटजनितापत्या वेश्या दासी काण्डपटादिनान्तरिता अशुचिः किमपि भक्षयन्ती इत्यादयो दोषा दातृगा ज्ञातव्याः (७) षड्जीवसम्मिश्रं मिश्रः (८) पावकादिद्रव्यैरपरित्यक्तपूर्वस्वकीयवर्णगन्धरसमपकं (९) लिप्तैर्दीकराद्यैर्दीयमानमशनादिकं लिप्तं तथाऽप्रासुकजलमृत्तिकोल्मुकादिभिर्लिप्तैर्यद्दीयते तल्लिप्तं (१०)।
स्वादनिमित्तं यत्संयोजनं शीते उष्णं उष्णे शीतमित्यादिमेलनं तदनेकरोगाणामसंयमस्य च कारणं ज्ञातव्यं (१) कुक्षेरर्धमंशमन्नेन पूरयेत् तृतीयमंशं कुक्षेः पानेन पूरयेत् कुक्षेश्चतुर्थमंशं वायोः सुखप्रचारार्थमवशेषयेत् रिक्तं रक्षेत् अस्मात्प्रमाणादतिरेकोऽधिकग्रहणं प्रमाणदोषः । प्रमाणातिक्रमेण किं भवति ? ध्यानभंगः, अध्ययनविनाशः, अर्युत्पत्तिः, निद्रोत्पत्तिः, आलस्यादिकं च स्यात् (२) इष्टान्नपानादिप्राप्तौ रागेण सेवनं अंगारदोषः (३) अनिष्टान्नपानादिप्राप्तौ द्वेषेण सेवा धूमदोषः (४)। अथ किमर्थमाहारो गृह्यते इति चेत् ? आहारग्रहणे मुनीनां गुणाः सन्ति । उक्तं च वीरनंदिभट्टारकेण
क्षुच्छान्त्यावश्यकप्राण-रक्षाधर्मयमा मुनेः वैयावृत्यं च षड्भुक्तेः कारणानीति यन्मतम् ॥ १॥ ततः शरीरसंवृद्धयै तत्तेजोबलवृद्धये। स्वादार्थमायुसंवृद्धयै नैव भुंजीत संयतः ॥२॥ महोपसर्गातकाङ्गसन्यासाङ्गिन्दयातपोब्रह्मचर्याणि भिक्षोः षट्कारणान्यशनोज्झने ॥३॥ एतद्दोषविहीनान्नभुक्तेरन्तरकारिणः ।
अन्तरायाः कियन्तोऽत्र वण्यन्ते वर्णिनामिमे ॥४॥ १ व्यपहार इति दोषनाम अन्यत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org