________________
भावप्राभृतं ।
२५१
त्रीत्वं ( १ ) दूरबन्धुजनानां वचनानां नयनमानयनं च दूतत्वं ( २ ) गजचिकित्सा विषचिकित्सा जांगुल्यपरनामा बालचिकित्सा तादृशान्यचिकित्साभिरशनार्जनं भिषग्वृत्तिः ( ३ ) स्वरान्तरिक्षभौमाङ्गव्यञ्जनच्छिन्नलक्षणस्वनाष्टाङ्गनिमित्तैरशनार्जनं निमित्तं ( ४ ) कश्चित्पृच्छति हे मुने ! दीनहीनादीनामन्नादिदानेन पुण्यं भवेन्न वा भवेत् ? मुनिरन्नार्थं वदति पुण्यं भवेदेवेत्यभ्युपगम इच्छाविभाषणमुच्यते (५) अहो जिनदत्त ! त्वं जगति विख्यातो दाता वर्तसे इत्यादिभिर्वचनैर्गृहस्थस्यानन्दजननं भुक्तेः पूर्व तत्पूर्वस्तवनं ( ६ ) एवं भुक्तेः पश्चात् स्तवनविधानं पश्चात्स्तुति: (७) क्रोधं कृत्वाऽन्नोपार्जनं क्रोधः (८) मानेनान्नार्जनं मान: ( ९ ) माययाऽनार्जनं माया (१०) लोभेनान्नार्जनं लोभः ( ११ ) वशीकरण मंत्र - तंत्राद्युपदेशेन यदन्नोपार्जनं तद्वश्यकर्म ( १२ ) स्वकीयतपः श्रुतजातिकुलादिवर्णनं स्वगुणस्तवनं (१३) सिद्धविद्यासाधित विद्यादीनां प्रदर्शनं विद्योपजीवनं ( १४ ) अङ्गशृङ्गारकारिणः पुरुषस्य पाठसिद्धादि - मंत्राणामुपदेशनं मंत्रोपजीवनं (१५) एवं चूर्णादेरुपदेशनं चूर्णोपजीवनं (१६) एते षोडशोत्पादनदोषा वेदितव्याः |
अथैषणादशदोषाः कथ्यन्ते । तेषामयं नामनिर्देश: । शंकितं ( १ ) म्रक्षितं ( २ ) निक्षिप्तं ( ३ ) पिहितं ( ४ ) उज्झितं ( ५ ) व्यवहारः (६) दातृ ( ७ ) मिश्र ( ८ ) अपक्कं ( ९ ) लिप्तं (१०) चेति । एतदन्नं सेव्यमसेव्यं वेति शंकितं ( १ ) सस्नेहहस्तपात्रादिना यद्दत्तं तन्म्रक्षितं (२) सचित्तपद्मपत्रादौ यत्क्षिप्तं तन्निक्षिप्तं ( ३ ) सचित्तेन पद्मपत्रादिना यत्पिहितं तदन्नं पिहितं ( ४ ) यच्चूतफलादिकं बहु त्यक्त्वा - ल्पसेवनं तदुज्झितं, अथवा यत्पानादिकं दीयमानं बहुतरेण गलनेनाल्पसेवनं तदुज्झितं ( ५ ) यद्यतीनां संभ्रमादादरतया चेलपात्रादेरसमीक्ष्याकर्षणं स
१ वेल० क. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org