SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५० षट्प्राभतेदास्यामि, अस्यामृतौ दास्यामि, अस्मिन् वर्षादौ दास्यामीति नियमेन यदन्नं मुनिभ्यो दीयते तत्प्राभतं कथ्यते (७) भगवन्निदं मदीयं गृहं वर्तते यत्रैवं गृहप्रकाशकरणं भवति निजगृहस्य गृहिणा प्रकटनं क्रियते, अथवा भाजनादीनां संस्कारः भाजनादीनां स्थानान्तरणं वा प्राविष्कृतमुच्यते ( ८ ) विद्यया क्रीतं द्रव्यवस्त्रभाजनादिना वा यत्क्रीतं तत्क्रीतं कथ्यते ( ९) कालान्तरेणाव्याजेन वा स्तोकमृणं कृत्वा यतीनां दानार्थ यदर्जितं तत्प्रामृष्यं मृष्यते (१०) कस्यचिद्गृहस्थस्य ब्रीहीन् दत्वा शालयो गृह्यन्ते, अथवा निजं कूरं दत्वा परकूरो गृह्यते निजाभ्यूषान् दत्वा परेषामभ्यूषा गृह्यन्ते एवं यत्परिवर्त्यते यतिभ्यो दीयते दास्यते वा स परिवर्तः कथ्यते (११) ग्रामात् पाटकात् गृहान्तराद्यदायातं तदभिहितं कथ्यते तद्योग्यं न भवति । कुतोऽप्यायातं योग्यं भवतीति चेत् ? भवति योग्यं यदि ऋजुत आसन्नादासप्ताद्गृहादायातं तत् योग्यं । पंक्तिबद्धात् षष्ठाद्गहाद्यदायातं तत्कल्पते सप्तमाहात् यदुपढौकितं तन्न कल्पते इत्यर्थः (१२) विमुद्रादिकं यदन्नादिकं भवति तदुद्भिन्नमुच्यते-उद्घाटितं न भुज्यते इत्यर्थः ( १३) मालिकादिसमारोहणेन यदानीतं तन्मालिकारोहणमुच्यते-उपरितनभूमेर्यद्धृतादिकमधस्तनभूमौ समानीतं तन्न कल्पते इत्यर्थः (१४ ) राजभयाचौरभयाद्यद्दीयते तदाच्छेद्यमुद्यते ( १५ ) ईशानीशानभिमतेन स्वाम्यस्वान्यनभिमतेन यद्दीयते तदनिसृष्टं कथ्यते (१६) इत्येते षोडशोद्गमदोषा भवन्ति । . ___ अथोत्पादनदोषाः षोडश उच्यन्ते तन्नामनिर्देशो यथा। धात्रीवृत्तिः (१) दूतत्वं (२) भिषग्वृत्तिः (३) निमित्तं (४) इच्छाविभाषणं (५) पूर्वस्तुतिः (६) पश्चात्स्तुतिः (७) क्रोधचतुष्कं (८-९-१०११) वश्यकर्म (१२) स्वगुणस्तवनं (१३) विद्योपजीवनं (१४) मंत्रोपजीवनं (१५) चूर्णोपजीवनं (१६) । बाललालनशिक्षादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy