________________
भावप्राभृतं । क्रियते । उद्दिष्टः (१) अध्यवधिः (२) पूति (३) मिश्रं ( ४ ) स्थापितं (५) बलिः (६) प्राभतं (७) प्राविष्कृतं (८) क्रीतं (९) प्रामृष्यः (१०) परिवर्त्तः (११) अभिहतं (१२) उद्भिन्नं (१३) मालिकारोहणं (१४) आच्छेद्यं (१५) अनिसृष्टं (१६) चेति षोडशोद्गमदोषाः । अथोद्दिष्टादीनां षोडशानामर्थविशेष उच्यतेयदन्नं स्वमुद्दिश्य निष्पन्नं तदुद्दिष्टं, अथवा संयतानुदिश्य निष्पन्नं, अथवा पाषंडिन उद्दिश्य निष्पन्नं, अथवा दुर्बलानुद्दिश्य निष्पन्नं तदन्नमुद्दिष्ट-- मुच्यते । प्रगता असवः प्राणा यस्मात्तत्प्रासुकं चर्मजलादिभिरस्पृष्टमप्यन्नमात्मार्थ कृतं तत्संयतैर्न सेव्यं । अत्र दृष्टान्तः यथा मदनोदके मत्स्यनिमितं कृते मत्स्या एव माद्यन्ति न तु दुर्दुरा भेका माद्यन्ति तथा यतिरपि दोषसहितमन्नमुद्दिष्टं न सेवते (१) अथाध्यवधिर्नाम दोषो द्वितीय उच्यते यतीनां-पाके क्रियमाणे आत्मन्यागते च सति तत्र पाके तन्दुला अम्बु चाधिकं क्षिप्यते सोऽध्यवषिर्दोष उच्यते, अथवा यावत्कालं पाको न भवति तावत्कालं तपस्विनां रोधः क्रियते सोऽध्यवधिर्दोष उत्पद्यते ( २ ) अथ पूतिनाम तृतीयं दोषमाहयत्प्रासुकं पात्रं कांस्यपात्रादिकं मिथ्यादृष्टिप्रातिवेशैमिथ्यागुर्वर्थ दत्तं तत्पात्रस्थमन्नादिकं महामुनीनामयोग्यं पूत्युच्यते (३) यत्प्रासुकेन मिश्रं तन्मिश्रं ( ४ ) पाकभाजनाद्गृहीत्वा यदन्नं स्वगृहेऽन्यगृहे वा स्थापित, अथवान्यस्मिन् भाजने भाण्डेऽन्नादिकं निष्पन्नं द्वितीये कांस्यपात्रादौ क्षिप्त्वा शोधनाद्यर्थ तृतीये भाजने मुच्यते तदन्नं मुनीनामयोग्यं किन्तु भाण्डान्मुनिभोजनपात्रे एव मुच्यते तस्माद्गृहीत्वा मुनये दीयते, अन्यथा स्थापितं नाम दोषः (५) यक्षादीनां बलिदानोद्धृतं अन्नं बलिरुच्यते, अथवा संयतागमनार्थ बलिकरणं बलिः कथ्यते (६) अस्यां वेलायां दास्यामि, अस्मिन् दिवसे दास्यामि, अस्मिन् मासे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org