________________
२४८
षट्प्राभूतेछायालदोसदूसियमसणं गसिउं असुद्धभावेण । पत्तोसि महावसणं तिरियगईए अणप्पवसो ॥ ९९॥
षट्चत्वारिंशदोषदूषितमशनं ग्रसित्वाऽशुद्धभावेन ।
प्राप्तोसि महाव्यसनं तिर्यग्गतौ अनात्मवशः ॥ छायालदोसदसियं षट्चत्वारिंशद्दोषैर्दूषितं मलिनीकृतं । असणं गसिउं असुद्धभावेण अशनं पिण्डं प्रसित्वा अशुद्धभावेन मिथ्यादृष्टिपरिणामेन ख्यातिपूजालाभकश्मलिना परिणामेन । पत्तोसि महावसणं प्राप्तोऽसि हे जीव ! महाव्यसनं महादुःखं । कस्यां ? तिरियगईए अणप्पवसो तिर्यग्गत्यामनात्मवशो जिव्होपस्थादिषडिन्द्रियपराधीन इति भावः ।
अथ के ते षट्चत्वारिंशदशनदोषा अशनस्येति चेत् ? षोडशसंख्या उद्गमदोषाः, तथा षोडशोत्पादनदोषाः, दशविधा एषणादोषाः, संयोजनाप्रमाणाङ्गारधूमदोषाश्चत्वार इति षट्चत्वारिंशदशनदोषाः । प्राणिनः प्राणव्यपरोप आरम्भ उच्यते (१) प्राणिन उपद्रवणं उपद्रवः कथ्यते (२) प्राणिनोऽङ्गच्छेदादिविद्रावणमभिधीयते (३) प्राणिनः सन्तापकरणं परितापनं व्याव्हियते (४) एतैश्चतुर्भिर्दोषैनिष्पन्नमन्नमतिनिन्दितमधःकर्म प्रतिपाद्यते । तदधःकर्म मनोवचनकायानां त्रयाणां प्रत्येकं कृतकारितानुमतभेदैर्नवविधं भवति । तेनाधःकर्मणा रहिता उद्गमाख्यषोडशदोषैर्वर्जिता उत्पादनषोडशदोषैः परित्यक्ता एषणादशदोषैः परिहृता संयोजनप्रमाणाङ्गारधूमनामभिश्चतुर्भिदोषैरुज्झिता ज्ञानाभ्यासध्यानधर्मोपदेशमोक्षप्राप्त्यादिकारणोपेता एषणासमितिप्रोक्तक्रमप्राप्ताशनसेवा भिक्षाशुद्धिर्गुणसमूहरक्षादक्षा वेदितव्या। तस्यां उद्दिष्टादयः षोडशदोषा वर्जनीयाः । ते के ? तन्नामनिर्देश:
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org