________________
भावप्राभृतं ।
२४७
यस्मै वा स भावस (स्व) हितः । चकाराने मुनिरन्येषामपि भव्यजीवानां हित: त्रैलोक्यलोकतारणसमर्थत्वात् । यो भावसहितः स पुमान् मुणिणो - मुनीनामिन: स्वामी मुनीनः स मुनिर्मुनिचक्रवर्ती | पावइ आराहणाचउक्कं च प्राप्नोति लभते, किं तत् ? आराधनाचतुष्कं सम्यग्दर्शनज्ञानचारित्रतपसामाराधकत्वं प्राप्नोति । भावरहिदो य मुणिवर भावरहितश्च जिनसम्यक्त्वातीतो वेषधारी मुनिः हे मुनिवर ! हे मुनिश्रेष्ठ ! | भ्रम भ्राम्यति पर्यटति । चिरं दीर्घकालं अनन्तकाल - यावत्कालं सिद्धस्वामिनो मुक्तौ तिष्ठन्ति तावत्पर्यन्तं स मिध्यादृष्टिर्मुनिभ्रमति । क ? दीहसंसारे दीर्घसंसारेऽनन्तभव संकटे संसारसमुद्रे मज्जनोमज्जनं करोतीति भावार्थः ।
/
पार्वति भावसवणा कल्लाणपरंपराई सोक्खाई । दुक्खाई दव्वसवणा नरतिरियकुदेवजोणीए ॥ ९८ ॥ प्राप्नुवन्ति भावश्रवणाः कल्याणपरम्पराणि सुखानि । दुःखानि द्रव्यश्रवणा नरतिर्यककुदेवयोनौ ||
पावंति भावसवणा प्राप्नुवन्ति लभन्ते, के ते ? भावश्रवणाः सम्यग्दृष्टयो दिगम्बराः । कल्लाणपरंपराई सोक्खाई कल्याणानां गर्भावतारजन्माभिषेकनिष्क्रमणज्ञाननिर्वाणलक्षणा ( नां) परंपरा श्रेणिर्येषु सौख्येषु तानि कल्याणपरंपराणि एवंविधानि सौख्यानि भावश्रवणाः प्राप्नुवन्ति तीर्थकरपरमदेवा भवन्ति । दुक्खाई दव्वसवणा दुःखानि प्राप्नुवन्ति, के ते ? दव्वसवणा- द्रव्यश्रवणा जिनसम्यक्त्वरहिता नग्नाः पशुसमानाः दिगम्बरा इति भावार्थः । क दुःखानि द्रव्यश्रवणाः प्राप्नुवन्तीति चेत् ? नरतिरियकुदेवजोणीए नराश्च मनुष्याः, तिर्यचश्च पशवः, कुत्सिता देवाश्च भावनामरा व्यन्तरा ज्योतिष्काश्च तेषां योनौ उत्पत्तिस्थाने । १ चकारात् न गुर्नर० इत्यादि ख. पाठः । पुस्तकद्वयेऽपि नकारो वर्तते स च शल्यति ।
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org