________________
२४६
षट्याभृतेइंस्थिविसयाहिलासो अंगविमोक्खो य पणिदरससेवा। संसत्तदव्वसेवा तहिंदियालोयणं चेव ॥१॥ सक्कारपुरक्कारो अतीदसुमरणमणागदहिलासो। इट्टविसयसेवा वि य नवभेदमिदं अबंभं तु ॥२॥ इति नवभेदमब्रह्म तद्वर्जनं नवभेदं ब्रह्मचर्य ज्ञातव्यमित्यर्थः। अब्बंभं दसविहं पमोत्तूण अब्रह्मचर्य दशविधं प्रमुच्य परिहृत्य । किं तद्दशविधमब्रह्मेति चेत् ?–
चिन्ता दिदृक्षा निःश्वासो ज्वरो दाहो रुचिस्तथा । मूर्टोन्मत्तोऽसुसन्देहो मरणं दशधा स्मरः ॥ १॥ मेहुणसण्णासत्तो मैथुनस्य कमनीयकामिन्या आलिङ्गनचुम्बनचूषणादिसंज्ञायामासक्तो लंपटो हे जीव !। भमिओसि भवण्णवे भीमे भ्रमितोऽसि भ्रान्तोऽसि पर्यटितोऽसि च्छेदनभेदनादिदुःखानि भुंजानो भवार्णवे संसारसमुद्रे चतुर्गतिलक्षणे भीमे भयानके रौद्रस्वभावे, अनन्तकालं दुःखी बभूविथेति ।
भावसहिदो य मुणिणो पावइ आराहणाचउक्कं च ।। भावरहिदो य मुणिवर भमइ चिरं दीहसंसारे ॥९७ ॥
भावसहितश्च मुनीनः प्राप्नोति अराधनाचतुष्कं च ।
भावरहितश्च मुनिवर ! भ्रमति चिरं दीर्घसंसारे ॥ भावसहिदो य मुणिणो भावेन जिनसम्यक्त्वलक्षणेन सहिदोसहितः संहित: संयुक्तः श्रीमद्भगवदर्हत्सर्वज्ञवीतरागचरणकमलचंचरीकः, अथवा भावः पूर्वोक्तलक्षणः स्वः शुद्धबुद्धकस्वभाव आत्मा हितो यस्य , स्त्रीविषयाभिलाषः अंगविमोक्षश्च प्रणीतरससेवा । संसक्तद्रव्यसेवा तथेन्द्रियालोकनं चैव ॥१॥ सत्कारपुरस्कारः अतीतस्मरणं अनागताभिलाषः । इष्टविषयसेवापि च नवभेदमिदमब्रह्म तु ॥ २॥
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org