________________
२४५
भावप्राभृतं । भेद ९ भोगभूमिजभेद २ पर्याप्त-अपर्याप्त, कुभोगभूमिजमनुष्य पर्याप्तअपर्याप्त, म्लेच्छखण्डमनुष्य पर्याप्त-अपर्याप्त, आर्यखण्डमनुष्य पर्याप्तअपर्याप्त लब्ध्यपर्याप्त । एवं भेद ९ । एवं जीवसमासा अष्टानवतिः । चउदसगुणठाणामाई चतुर्दशगुणस्थाननामानि । यथा
मिच्छा सासण मिस्सो अविरदसम्मो य देसविरदो य । विरदा पमत्त इयरो अपुव्व आणियहि सुहमो य ॥१॥ उवसंत खीणमोहो सजोगकेवलिजिणो अजोगी य ।
चउदसगुणठाणाणि य कमेण सिद्धा मुणेअव्वा ॥२॥ मिथ्यात्वगुणस्थानं (१) सासादनगुणस्थानं (२) मिश्रगुणस्थानं (३) अविरतसम्यग्दृष्टिगुणस्थानं (४) देशविरतगुणस्थानं (५) प्रमत्तसंयतगुणस्थानं (६) अप्रमत्तसंयतगुणस्थानं (७) अपूर्वकरणगुणस्थानं (८) अनिवृत्तिकरणगुणस्थानं (९) सूक्ष्मसांपरायगुणस्थानं (१०) उपशान्तकषायगुणस्थानं (११) क्षीणकषायगुणस्थानं (१२) सयोगकेवलिगुणस्थानं (१३) अयोगकेवलिगुणस्थानं (१४) चेति । चतुर्दशगुणस्थानानां विवरणमागमाद्वेदितव्यं । तानि त्वं हे जीव ! भावय-रुचिमानय-श्रद्धानं कुर्विति ।
णवविहभं पयडहि अब्बंभं दसविहं पमोत्तूण । मेहुणसण्णासत्तो भमिओसि भवण्णवे भीमे ॥ ९६ ॥
नवविधब्रम्हचर्य प्रकटय अब्रह्म दशविधं प्रमुच्य ।
मैथुनसंज्ञासक्तः भ्रमितोसि भवार्णवे भीमे ॥ णवविहभं पयडहि नवविधं नवप्रकारं ब्रह्मचर्य हे जीव ! त्वं प्रकटय सर्वकालमात्मप्रत्यक्षं कुरु । मनोवचनकायानां प्रत्येकं कृतकारितानुमतानि त्रीणि त्रीणीति नवविधं ब्रह्मोच्यते । अथवा
१ अनयोः छाया पूर्वं गता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org