________________
भावप्राभृतं ।
२६९
पंचानामिन्द्रियाणां प्रसरपरिहार इन्द्रियसंयम: पंचविधः । एते दशकायसंयमा ज्ञातव्याः । दशालोचनदोषा यथा
आकंपिय अणुमाणिय जं दिटुं बायरं च सुहमं च। छन्नं सद्दाउलयं बहुजणमवत्त तस्सेवी ॥१॥ अस्या अयमर्थः-आलोचनां कुर्वन् शरीरे कम्प उत्पद्यते भयं करोतीत्याकम्पितदोषः । अणुमाणिय-अनुमानेन दोषं कथयति यथोक्तं न कथयतीत्यनुमानदोषः। जं दिढं-यत्पापं केनचिदृष्टं तत्कथयति, अन्यजानन्नपि न कथयतीति यदृष्टदोषः । बायरं च-स्थूलं पापं प्रकाशयति सूक्ष्मं न कथयतीति बादरदोषः । सुहमं च-सूक्ष्म अल्पं पापं प्रकाशयति स्थूलं पापं न प्रकाशयतीति सूक्ष्मदोषः । छन्नं यदा कोऽपि न भवत्याचार्यसमीपे तदैकान्ते पापं प्रकाशयतीति छन्नदोषः । सद्दाउलयंयदा वसतिकादौ कोलाहलो भवति तदा पापं प्रकाशयतीति शब्दाकुलदोषः । बहुजणं-यदा बहवः श्रावकादयो मिलिता भवन्ति तदा पापं प्रकाशयतीति बहुजनदोषः । अव्वत्त-अव्यक्तं प्रकाशयति दोषं स्फुटं न कथयतीत्यव्यक्तदोषः । तस्सेवी-यत्पापं गुर्वग्रे प्रकाशितं तत्सर्वथा न मुंचति पुनरपि तदेव कुरुते स तत्सेवी कथ्यते । अथवा य आचायस्तं दोषं करोति तदने पापं प्रकाशयति निर्दोषाचार्याने पापं न प्रकाशयतीति तत्सेवी दोषः । दश धर्मास्तु प्रसिद्धा वर्तन्ते तेन न व्याख्याताः।
झायहि धम्मं सुकं अट्ट रउदं च झाण मुत्तण । रुद्दट्ट झाइयाइं इमेण जीवेण चिरकालं ॥ ११९ ॥
ध्याय धर्म्य शुक्लं आर्त रौद्रं च ध्यानं मुक्त्वा ।
आर्तरौद्रे ध्याते अनेन जीवेन चिरकालम् ॥ झायहि धम्म सुक्कं ध्याय-एकाग्रेण चिन्तय । किं ? कर्मतापन्नं धर्म्य धर्मादनपेतं धर्म्य । आज्ञापायविपाकसंस्थानलक्षणं चतुर्विधं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org