________________
दर्शनप्राभतं ।
माह-तह जिणदंसण मूलो निद्दिडो मोक्खमग्गस्स तथा तेनैव वृक्षमूलप्रकारेणैव मोक्षमार्गस्य मूलं सम्यग्दर्शनज्ञानचारित्रलक्षणस्य मोक्षमार्गस्य मूलं कारणं, जिणदंसणं-जिनदर्शनं मूलं निर्दिष्टं श्रीगौतमस्वामिना कथितं । श्रीमूलसंघो मोक्षमार्गस्य मूलं कथितं न तु जैनाभासादिकं । किं तजैनाभासं ? उक्तं च
गोपुच्छिकः श्वेतवासा द्राविडो यापनीयकः ।
निष्पिच्छश्चति पंचैते जैनाभासाः प्रकीर्तिताः ॥१॥ ते जैनाभासा आहारदानादिकेऽपि योग्या न भवन्ति कथं मोक्षस्य योग्या भवन्ति । गोपुच्छिकानां मतं यथा, उक्तं च
इत्थीणं पुणदिक्खा खुल्लयलोयस्स वीरचरियत्तं । कक्कसकेसगहणं छठं च गुणव्वदं नाम ॥ १ ॥ श्वेतवाससः सर्वत्र भोजनं गृह्णन्ति प्रासुकं मांसभक्षिणां गृहे दोषो नास्तीति वर्णलोपः कृतः । तन्मध्ये श्वेताम्बराभासा उत्पनास्ते त्वतीव पापिष्ठाः देवपूजादिकं किल पापकर्मेदमिति कथयन्ति, मण्डलवत्सर्वत्र भांडप्रक्षालनोदकं पिबन्ति इत्यादि बहुदोषवन्तः। द्राविडा:-सावा प्रासुकं च न मन्यन्ते उद्भभोजनं निराकुर्वन्ति । यापनीयास्तु वेसरा इवोभयं मन्यन्ते, रत्नत्रयं पूजयन्ति, कल्पं च वाचयन्ति, स्त्रीणां तद्भवे मोक्षं, केवलिजिनानां कवलाहारं, परशासने सग्रन्थानां मोक्षच कथयन्ति । निष्पिच्छिका मयूरपिच्छादिकं न मन्यन्ते । उक्तं च ढाढसीगाथासु
स्त्रीणां पुनर्दीक्षा क्षुल्लकलोकस्य वीरचर्यात्वं । कर्कशकेशग्रहणं षष्ठं च गुणवतं नाम ॥ १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org