SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १० annaminnnnnnnnnnnnnnnnnnn षट्प्राभतेसंग्रमतपोनियमयोगगुणधारी। तस्स य दोस कहंता तस्य च दोषान् कथयन्तः केचित्पापिष्ठाः । भग्गा भग्गत्तणं दिति स्वयं भग्नाश्चारित्रात्पतिता भ्रष्टा अन्येषामपि भ्रष्टत्वमारोपयन्ति ते निन्दनीया इत्यर्थः । जह मूलम्मि विणहे दुमस्स परिवार णत्थि परिवडी । तह जिणदंसणभहा मूलविणहा ण सिझंति ॥१०॥ यथा मूले विनष्टे द्रुमस्य परिवारस्य नास्ति परिवृद्धिः। तथा जिनदर्शनभ्रष्टाः मूलविनष्टा न सिद्धयन्ति ॥ जह मूलम्मि विणहे दुमस्स परिवार णत्थि परिवडी यथा मूले पातालगताधारे विनष्टे विनाशं प्राप्ते द्रुमस्य वृक्षस्य परिवारस्य नास्ति परिवृद्धिः शाखापत्रपुष्प फलादेवृद्धिर्नास्ति वृद्धिर्न भवति । परिवार इत्यत्र षष्ठीलुकू "लुक्चेति" वचनात् । दृष्टान्तं दत्वा दार्टान्तं ददाति । तह जिणदंसणभट्टा तथा तेन द्रुममूलप्रकारेण जिनदर्शनभ्रष्टा आहेतमतात्पतिताः । मूलविणहा श्रीमूलसंघात्प्रच्युताः । न सिद्धयन्ति-न मोक्षं प्राप्नुवन्ति जन्मशतसहस्रेष्वपि संसारे परिभ्रमन्तीति भावार्थः । जह मूलाओ खंधो साहापरिवार बहुगुणो होइ । तह जिणदंसण मूलो णिदिहो मोक्खमग्गस्स ॥ ११॥ यथा मूलात् स्कन्धः शाखापरिवारो बहुगुणो भवति । तथा जिनदर्शनं मूलं निर्दिष्टं मोक्षमार्गस्य ॥ जह मूलाओ यथा मूलात् वृक्षस्य मूलात्कारणात् । स्कन्धः शाखावधिः प्रकाण्डः । बहुगुणो होइ प्रचुरगुणो वृद्धयाद्यतिशयवान् भवति । तथा साहापरिवार शाखापरिवारश्च लतास्वरूपी कटप्रश्च बहुगुणो भवति पत्रपुष्पफलादिमान् भवति । दृष्टान्तो गतः । इदानी दार्टान्त १ बहुगुणा हुँति. ग. घ.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy