________________
दर्शनप्राभृतं ।
अतिक्रमव्यतिक्रमातिचारानाचारत्यागैश्चतुर्भिर्गुणिताश्चतुरशीतिर्गुणा भवन्ति ते पृथिव्यादिशतजीवसमासर्गुणिताश्चतुरशीतिशतानि गुणा भवन्ति ते दशशीलविराधनैर्गुणिताश्चतुरशीतिसहस्राणि गुणा भवन्ति । कास्ताः शीलविराधनाः स्त्रीसंसर्गः १ सरसाहारः २ सुगन्धसंस्कारः ३ कोमलशयनासनं ४ शरीरमण्डनं ५ गीतवादित्रश्रवणं ६ अर्थग्रहणं ७ कुशीलसंसर्गः ८ राजसेवा ९ रात्रिसंचरणं १० इतिदशशीलविराधनाः । ते आकम्पितादिदशालोचनादोषत्यागैर्दशभिर्गुणिताः चत्वारिंशत्सहस्राधिकाष्टलक्षाणि गुणा भवन्ति । उत्तमक्षमादिदशधर्मैर्गुणिताश्चतुरशीतिलक्षाणि गुणा भवन्ति । अथातिक्रमादयश्चत्वारः के ? अतिक्रमस्तावद्विशिष्टमतित्यागः । व्यतिक्रमः शीलवृत्तिलंघनं । अतिचारो विषयेषु प्रवर्तनं । अनाचारो विषयेष्वत्यासक्तिः । के ते दशालोचनादोषाः ? तदर्थनिरूपिका गाथेयं--
आकंपिअ अणुमाणिअ जं दिह्र बादरं च सुहमं च । छन्नं सद्दाउलयं बहुजणमव्वत्त तस्सेवी ॥१॥ अस्या अयमर्थः-आकम्पितं आकम्पो भयमुत्पद्यते मा बहुदण्ड दासीदाचार्यः १ अणुमाणियं अनुमानं इत्येतावत्पापं कृतं भविष्यति निर्धारो नास्ति २ जं दिलु यत्केनचिदृष्टं तत्प्रकाशयति ३ वायरं स्थूलं पापं प्रकाशयति ४ सुहुमं अल्पं पापं कथयति न महापापं प्रकाशयति ५ छण्णं प्रच्छन्नं आचार्याने कथयति न प्रकटं ६ । सद्दाउलयं संघादिकृतकोलाहले सति कथयति पापं ७ बहुजणं बहुः संघो मिलति तदा पापं प्रकाशयति ८ अव्वत्तं अव्यक्तं प्रकाशयति स्फुटं न कथयति ९ तरसेवी यत्पापं प्रकाशितं तदेव पुनरपि करोति १० इति दशालोचनदोषाः । दशकायसंयमाः के ? पंचेन्द्रियनिर्जयः पंचप्राणरक्षा इति दश । एतान् संयमतपोनियमयोगगुणान् धरतीत्येवमवश्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org