________________
२४२
षट्प्राभृते"मार्गाच्यवननिर्जरार्थ परिसोढव्याः परीषहाः" इति । अप्पमत्ता अप्रमत्ताः प्रमादरहिताः इत्यर्थः । संजमघादं पमोत्तूण संयमस्य घातं प्रमुच्य ।
जह पत्थरो ण भिज्जइ परिडिओ दीहकालमुदएण। तह साहू ण विभिज्जइ उवसग्गपरीसहेहितो ॥ ९३ ॥ ___ यथा प्रस्तरो न भिद्यते परिस्थितो दीर्घकालं उदकेन ।
तथा साधुर्न विभिद्यते उपसर्गपरीषहेभ्यः ॥ जह पत्थरो ण भिजइ यथा प्रस्तरः पाषाणो न विभिद्यते न परिणमति अन्तरार्दो न भवति । परिहिओ दीहकालमुदएण पाषणः कथंभूतः, परिस्थितः बुडित उदके इति सौत्रसम्बन्धात् । कथं परिस्थितः, दीर्घकालं प्रचुरकालं, केन न विभिद्यते ? उदकेन वारिणा । तह साहू ण विभिज्जइ तथा साधुर्मुनी रत्नत्रयसाधकः सम्यग्दर्शनज्ञानचारित्रमण्डितो न विभिद्यते नान्तःक्षुभितो भवति । उवसग्गपरीसहेहिंतो देवमानवतिर्यगचेतनोपद्रवेभ्य उपसर्गेभ्यः परीपहेभ्यः क्षुधापिपासादिभ्यो द्वाविंशतेरपि। “सुन्तो हिन्तो हि दु दो त्तो भ्यसः” इति प्राकृतव्याकरणसूत्रेण पंचमीबहुक्चनभ्यसः स्थाने हिंतो आदेशः । ङसिस्थाने च “ लुक्च हितो हि दु दो तो उसेः" इति सूत्रेण भवति । " व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणं" इति परिभाषयाऽत्र बहुवचनस्य भ्यसो हिन्तो आदेशो ज्ञातव्य इति ।
भावहि अणुवेक्खाओ अवरे पणवीसभावणा भावि ।
भावरहिएण किं पुण बाहिरलिंगेण कायव्वं ॥ ९४॥ १" सीवूसहोऽङेऽसोः " इति शाकटायनीयेन " सोढः" इति जैनेन्द्रीयेण पाणिनीयेन च सूत्रेण षत्वनिषेधः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org