________________
२४३
vvvv
wwwwwwwwwwwww
भावप्राभृतं । भावय अनुप्रेक्षा अपराः पञ्चविंशतिभावना भावय ।
भावरहितेन किं पुनः बहिर्लिङ्गेन कार्यम् ॥ भावहि अणुवेक्खाओ भावय पुनः पुनश्चिन्तय अनुप्रेक्षा अनित्यादीः । अवरे पणवीसभावणा भावि अपराः पंचविंशतिभावना भावय । भावरहिएण किं पुण भावरहितेन पुनः किं-न किमपि इत्याक्षेपः । बाहिरलिंगेण काय बहिलिगेन नग्नवेषेण किं साध्य कर्मक्षयशून्यमिदं ।
सव्वविरओ वि भावहि णवयपयत्थाई सत्ततच्चाई। जीवसमासीई मुणी चउदसगुणठाणणामाई ॥९५ ॥
सर्वविरतोपि भावय नवकपदार्थान् सप्ततत्वानि ।
जीवसमासान् मुने ! चतुर्दशगुणस्थाननामानि । सव्वविरओ वि भावहि सर्वविरतोऽपि हे जीव ! त्वं महाव्रत्यपि सन् भावय । णवयपयत्थाई सत्ततच्चाई नवपदार्थान् जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षपुण्यपापपदार्थान् । चेतनालक्षणो जीवः । पुद्गलधर्माधर्मकालाकाशा अजीवाः । आत्मप्रदेशेषु कर्मपरमाणव आगच्छन्ति स आस्रवो मिथ्यात्वाविरतिप्रमादकषाययोगरूपः । आत्मप्रदेशेषु आस्रवानन्तरं द्वितीयसमये कर्मपरमाणवः श्लिष्यन्ति स बन्धः प्रकृतिस्थित्युनु. भागप्रदेशभेदाच्चतुर्विधः । आस्रवस्य निरोधः संवर उच्यते । स संवरः सं गुप्तिसमितिदशधर्मानुप्रेक्षापरीषहजयचारित्रैर्भवति । तपसा निर्जरा च भवति संवरश्च भवति । सर्वकर्मक्षयो मोक्षः कथ्यते। ऐते नवपदार्थाः, एतेषां विस्तर आगमाद्वेदितव्यः । सप्ततत्वानि पुण्यपापरहितानि ज्ञातव्यानि ।
१ पुस्तकद्वयेऽपि सशब्दो वर्तते । २ पुस्तकद्वयेऽपि पुण्यपापयोर्लक्षणं नास्ति तदनेन प्रकारेण ज्ञेयं । पुनात्यात्मानं तत्पुण्यं । पाति रक्षति शुभादात्मानं तत्पापं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org