SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । न्मुक्ताः परित्यक्ता निर्मथतृड्दाहशोषोन्मुक्ताः । निम्मलसुविसुद्धभावसंजुत्ता इति च क्वचित्पाठः तत्रायमर्थः - निर्मलो द्रव्यकर्मभावकर्मनोकर्मरहितः योऽसौ सुविशुद्धभावः कर्ममलकलङ्करहितः क्षायिको भावः परिणामः निष्केवल आत्मा वा तेन संयुक्ताः सहिता निर्मलसुविशुद्धभावसंयुक्ताः । होंति सिवालयवासी भवन्ति संजायन्ते, के ते ? आसन्नभव्यजीवाः कीदृशाः संजायन्ते शिवालयवासिन ईषत्प्राग्भारनाम्न्यां शिलायां वसन्तीति मुक्तिशिलोपरि तिष्ठन्तीत्येवं शीलाः शिवालयवासिनः, अथवा शिवानां सिद्धानामालय: शिवालयः पंचचत्वारिंशलक्षयोजनविस्तार मुक्तिशिलाया' उपरि तनुवातनामवातवलये निराधारा आकाशे तिष्ठन्तीतिभावः । पुनः कथंभूताः सिद्धाः, तिहुर्वणचूडामणी त्रैलोक्यशिरोरत्नसदृशाः । " २४१ दस दस दो सुपरीसह सहहि मुणी सयलकाल कारण । सुत्तेण अप्पमत्ता संजमधादं पमोत्तूण ॥ ९२ ॥ दश दश द्वौ सुपरीषहान् सहस्व मुने ! सकलकालं कायेन । सूत्रेण अप्रमत्ताः संयमघातं प्रमुच्य ॥ दस दस दो दश च पुनर्दश च द्वौ च द्वाविंशतिरित्यर्थः । के ते, सुपरीसह सुष्ठुअतिशयेन परिसमन्तात् सह्यन्ते ये ते सुपरीषहा: "मार्गाच्यवननिर्जरार्थं परिसोढव्याः परीषहाः " ते तु पूर्वोक्तवर्णना ज्ञातव्याः । सहहि सहस्व । मुणी हे मुने ! ही तपस्विन् ! | सयलकाल सकलकालं सर्वकालं, कायेन शरीरेण वाग्मनश्चात्मनि स्थाप्यते इति भावः । सुत्तेण सूत्रेण जिनवचनेन कृत्वा । किं तज्जिनवचनं : १ न केवल इति. ख. । २ य. टी. । ३ दस दस दो सुपरीसह सहंति. ख. । ४ इले. क. षट्० १६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy