SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २४० षट्प्राभूतेतित्थयरभासियत्थं गणहरदेवेहिं गंथियं सम्म । भावहि अणुदिणु अतुलं विसुद्धभावेण सुयणाणं ॥९०।। तीर्थंकरभाषितार्थ गणधरदेवैः ग्रन्थितं सम्यक् । भावय अनुदिनं अतुलं विशुद्धभावेन श्रुतज्ञानम् ॥ तित्थयरभासियत्थं तीर्थकरेण श्रीमद्भगवदर्हत्सर्वज्ञवीतरागेण भाषितः कथितोऽर्थो यस्य श्रुतज्ञानस्य तत्तीर्थकरभाषितार्थ । गणहरदे. वेहिं गंथियं सम्म गणधरदेवैर्गौतमस्वाम्यादिभिर्ग्रन्थितं द्वादशाधिकशतकोटित्र्यशीतिलक्षाष्टापंचाशत्सहस्रपंचाधिकपदैरानीतमिति प्रन्थितं । चतुर्दशप्रकीर्णकैरप्यानीतं श्रुतज्ञानं । सम्मं सम्यक्प्रकारेण पूर्वापरविरोधरहितं । भावहि भावय । अणुदिणु अनुदिनमहर्निशं । अतुलं अनुपमं । विसुद्धभावेण सुयणाणं चलमलिनपरिणामरहिततया। एकस्य पदस्य श्लोका यथा-५१०८८४६२१ अक्षर १६ । उक्तं च श्रुतस्कन्धशास्त्रे एक्कावनकोडीओ लक्खा अहेव सहसचुलसीदी। सयछकं णायव्वं सड्ढाइगवीसपयगंथा ॥१॥ पाऊण णाणसलिलं निम्महतिसडाहसोसउम्मुका। होति सिवालयवासी तिहुवणचूडामणी सिद्धा ॥९॥ प्राप्य ज्ञानसलिलं निर्मथ्यतृषादाहशोषोन्मुक्ताः । भवन्ति शिवालयवासिनः त्रिभुवनचूडामणयः सिद्धाः ॥ पाऊण णाणसलिलं प्राप्य लध्वा, किं ? ज्ञानसलिलं सम्यग्ज्ञानपानीयं सिद्धा भवन्तीति सम्बन्धः । कथंभूताः सिद्धाः, निम्महतिसडाहसोसउमुक्का निर्मथ्या मथयितुमशक्या स चासौ तृषा विषयाभिलाषः दाहश्च शरीरपरिसन्तापः शोषश्च रसादिहानिः निर्मथतृषादाहशोषाः तैरु १ एकपंचाशत्कोट्यः लक्षा अष्टावेव सहस्रचतुरशीतिः । शतषट्रकं ज्ञातव्यं साधैकविंशतिपदग्रन्था ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy