________________
भावप्राभृतं ।
२३९
एयंत बुद्धदरिसी विवरीओ बंभ तावसो विणओ।
इंदो वि य संसयिदो मक्कडिओ चेव अण्णाणी ॥१॥ एकान्तेन क्षणिकैकान्तेन मोक्षं बौद्धो वदति । विपरीतेन हिंसया मोक्षं बंभ-ब्राह्मणो वदति। तापसो विनयेन मोक्षं वदति । इन्द्र इन्द्रचन्द्रनागेन्द्रगच्छः संशयेन मोक्षं मन्यते । अपिचशब्दाद्गोपुच्छिको द्राविडो यापनीयाभिधो निष्पिच्छश्च संशयमोक्षो ज्ञातव्यः । मस्करपूरणो मार्कटिकोऽज्ञानान्मोक्षं मन्यते । एतन्महापातकं मिथ्यात्वपंचकं चयसु-त्यज हे जीव ! त्वं । तथा च समन्तभद्रः प्राह
न सम्यक्त्वसमं किंचित् त्रैकाल्ये त्रिजगत्यपि । श्रेयोऽश्रेयश्च मिथ्यात्वसमं नान्यत्तनूभृताम् ॥१॥ भावसुद्धीए-तत्वार्थश्रद्धानलक्षणया भावशुद्धया जिनसम्यक्त्वेन लौंकपापसंभाषणसंगमपरिहारेण शुद्धबुद्धकस्वभावात्मरुचिपरिणामेनेति भावार्थः । चेइयपवयणगुरुणं चैत्यानां अर्हत्सिद्धप्रभृतिप्रतिमानां प्रवचनस्य जिननाथसूत्रस्य तथेति मस्तकोपर्यारोपणेन सरस्वतीप्रतिमापूजनेन गुरूणां निर्ग्रन्थदिगम्बराणां भव्यजीवभक्तजनविनेयमातृपितृसदृशहितोपदेशकानां । करेहिं भत्तिं जिणाणाए कुरु त्वं भक्तिं पंचामृतजलेक्षुरसहैयंगवीनगोमहिषीक्षीरगन्धोदककलशस्नपनेन जलचन्दनाक्षतपुष्पचरुदीपधूपफलार्धदानेन स्तवनेन जपेन ध्यानेन श्रृतदेवताराधनेन नित्यं प्रातरुत्थाय सर्वज्ञवीतरागप्रतिमासर्वाङ्गावलोकने भक्तिं कुरु, तथा श्रुतभक्तिं श्रुतोक्तप्रकारेण कुरु, तथा गुरूणां पादमर्दनेन वैयावृत्ययथासंभवाहारदानश्रुतसमर्पणौषधप्रदानवसत्यर्पणाभयदानादिभिर्यथायोग्यं भक्तिं कुरु । एतत्सर्व भक्तिलक्षणं कर्म जिनाज्ञया महापुराणश्रवणेने त्व कुरु हे जीव ! स्वर्ग मोक्षं च प्राप्स्यसि । लौंकानां महापाताकनां वचन मा मानवस्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org