SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २३८ षट्प्राभृतेयाणं भावरहितानां जिनसम्यक्त्वविवर्जितानां निजशुद्धबुद्धकस्वभावा. त्मभावनाऽग्रच्युतानां यतीनां (निरर्थक)। उक्तं च बाह्यग्रन्थविहीना दरिद्रमनुजाः स्वभावतः सन्ति। यः पुनरन्तःसंगत्यागी लोके स दुर्लभो जीवः ॥१॥ भंजसु इंदियसेणं भंजसु मणमकडं पयत्तेण । मा जणरंजणकरणं बाहिरवयवेस तं कुणसु ॥ ८८ ।। भङग्धि इन्द्रियसेनां भङ्ग्धि मनोमर्कटं प्रयत्नेन । मा जनरञ्जनकरणं बहिर्वतवेष ! त्वं कार्षीः ॥ भंजसु इंदियसेणं त्वं भंग्धि, कां ? इन्द्रियसेनां । भंजसु मणमकडं पयत्तेण भंजसु-त्वं भंग्धि आमर्दय विषयकषायेभ्यो गच्छन्तं निरुणद्धि, कं ? मणमक्कडं-मनोमर्कटं चपलस्वभावत्वान्मन एव मकर्टस्तं मनोवानरं प्रयत्नेन स्त्रीसंगपरित्यागात् । मा जणरंजणकरणं मा-नैव जनानां लोकानां रंजनकरणं अनुरागोत्पादकं कार्य । हे बाहिरवयवेस बहिर्बतवेष ! हे बाह्याकारदीक्षाचिह्नोद्वाहक !। तं त्वं । मा कुणसु मा कार्षीः । णवणोकसायवग्गं मिच्छत्तं चयसु भावसुद्धीए। चेइयपवयणगुरुणं करेहिं भत्तिं जिणाणाए ॥ ८९ ॥ नवनोकषायवर्ग मिथ्यात्वं त्यज भावशुद्धया। चैत्यप्रवचनगुरूणां कुरु भक्ति जिनाज्ञया ॥ णवणोकसायवग्गं नवनोकषायवर्ग हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुसंकवेदलक्षणान् नोकषायान् ईषत्कषायान् यथाख्यातचारित्रघातकान् । चयसु त्यजेति संबन्धः। तथा मिच्छत्तं चयसु भावसुद्धीए मिथ्यात्वं पंचप्रकारं चयसु-त्यज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy