________________
२३७
AnA
AnnnnnnnnnnnnAMAN
भावप्राभृतं । त्तस्मिन्नेव समुद्रे तस्यैव महामत्स्यस्य कर्णबिलमलाशनशीलः शालिसिक्थप्रमाणशरीरो मत्स्यो बभूव । तदन्वेष पर्याप्तद्रव्यभावेन्द्रियः तस्य महामत्स्यस्य मुखं व्यादाय निद्रायतो वेलानदीप्रवाहे इव गलगुहानेकजलचरसमूहं प्रविश्य निष्क्रामन्तं निरीक्ष्य शालिसिक्थश्चिन्तयति-भयं पापकर्मा महामत्स्यो निर्भाग्यो यन्मुखे पतन्त्यपि यादांसि भक्षित्तुं न शक्नोति । मम देवेनैतावच्छरीरं यदि भवति तदा सकलमपि समुद्र सत्वसंचाररहितं करोमीति चेतश्चिन्ताबलात्क्षुद्रमत्स्यो निखिलनक्रचक्रभक्षणपापाच्च महामत्स्योऽपि द्वावपि मृत्वा सप्तमनरके संजातौ । ततस्त्रयस्त्रिंशत्सागरोपमायुषौ तौ द्वावपि परस्परमालापं चक्रतुः। अहो क्षुद्रमत्स्य ! महापापकर्मणो ममात्रागमनं संगच्छत एव । त्वं तु मत्कर्णमलाजीवनः कथमत्रागतः । शालिसिक्थचरनारकः प्राह-महामत्स्यचेष्टितादपि दुरन्तदुःखं ( ख ) संबन्धनादुर्भावनावशात् । इति श्रीभावप्राभते शालिसिक्थमत्स्योपाख्यानं समाप्तं ।
बाहिरसंगच्चाओ गिरिसरिदरिकंदराइ आवासो। सयलो णाणज्झयणो निरत्थओ भावरहियाणं ॥ ८७॥ बाह्यसङ्गत्यागः गिरिसरिद्दरीकन्दरादावासः ।
सकलं ज्ञानाध्ययनं निरर्थकं भावरहितानाम् ॥ बाहिरसंगचाओ बाह्यसंगत्यागः निरर्थक इति सम्बन्धः । गिरिसरिदरिकंदराइ आवासो गिर आवासः पर्वतोपरि आतापनयोगः पर्वते स्थितिर्वा, सरित्-नदीतटे तपश्चरणं भगीरथवत् , दरी गुहायामावासः, कन्दरो गिर्यादिविवरं तत्रावासः, आदिशब्दात् श्मशानोद्यानादौ आवासः स्थितिः। सयलो णाणज्झयणो सकलं वाचनापृच्छनानुप्रेक्षा. म्नायधर्मोपदेशलक्षणं ज्ञानाध्ययनं शास्त्रपठनं । निरत्थओ भावरहि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org