SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २३६ षट्प्राभृते नरयं अशुद्धभावः सन् गतः प्राप्तः महानरकं सप्तमं नरकं गतः । इय गाउं अप्पाणं इति ज्ञात्वात्मानं शुद्धबुद्वैकस्वभावरूपं टंको कर्णस्फटिकबिंबोपमं चिच्चमत्कारलक्षणं मुक्तिगत सिद्धसमानं शुद्धनिश्चयनयेन सिद्धं ज्ञापकैकस्वभावं हे जीव ! हे आत्मन् ! | भावहि जिणभावणा णिच्चं भावय त्वं भावनाविषयं कुरु इयं जिनभावनेति ज्ञात्वा, अथवा जिनभावना जीवादिसप्ततत्वश्रद्धानं च नित्यं सर्वकालं भावय रोचस्व तस्मादिति अपध्यानं परिहृत्य अन्तस्तत्वं बहिस्तत्वं चाश्रयेति भावार्थ: : । किं तदपध्यानं ? वधबन्धच्छेदादे रागाद्वेषाच्च परकलत्रादेः । आध्यानमपध्यानं शासति जिनशासने विशदाः ॥ १ ॥ " पदस्थं मंत्रवाक्यस्थं पिण्डस्थं स्वात्मचिन्तनं । रूपस्थं सर्वचिद्रूपं रूपातीतं निरंजनं ॥ " इति पद्योक्तं चतुर्विधं ध्यानं भावय हे जीव ! । अथ शालिसिक्थैमत्स्यकथा यथा - श्री पुष्पदन्त जिनजन्मभूमौ काकन्दीपुरे श्रावककुलजन्मा सौरसेनो राजा बभूव । सकलधर्मानुरोधेन मांसव्रतं जग्राह । पुनर्वेदवैद्यरुद्रमतमोहितमतिः मांसभक्षणमतिः संजातः, अङ्गीकृतवस्तुनिर्वाहनकारणाल्लोकापवादाच्च मांसं जुगुप्समानः मनोविश्रामहेतुं कर्मप्रियनामकेतुं सूपकारं स्वाद्वयैकान्ते निजाभिलाषं तमजिज्ञपत् । बिटचर -स्थलचर- जलचरजीवानां मांसमानाययन्नपि अनेकराजकार्याकुलचित्ततया मांसभक्षणावसरं न प्राप । कर्मप्रियोऽपि नृपादेशं अहर्निशं कुर्वनेकदा सर्पबालकेन दृष्टो मृतः स्वयंभूरमणसमुद्रे महामत्स्यो बभूव । भूपः सौरसेनोऽपि चिरकालेन मृत्वा मांसभक्षणाशयानुबन्धा १ द्वेषाद्रागाच्चेति पाठान्तरमन्यत्र । २ क्त. टी. । Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy