SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । २३५ दीनि सर्वाणि भोगाकांक्षानिदानख्यातिपूजालाभादिकमभिलाषुकतया करोति विदधाति परं जिनसम्यक्त्वेनान्त: शून्यो निर्विवेकः बहिरात्मा जीवः । तह वि ण पावदि सिद्धिं तथापि नानापुण्यानि कुर्वन्नपि जीवो न प्राप्नोति न लभते, कां ? सिद्धिं आत्मोपलब्धिलक्षणां मुक्तिमिति-जिनसम्यक्त्वरहितो दूरभव्योऽभव्यो वा स ज्ञातव्य इत्यर्थः । यदि सिद्धिं न प्राप्नोति तर्हि कीदृशो भवति ? संसारत्थो पुणो भणिदो संसारस्थोऽनन्तसंसारी पुनर्भणित आगमे प्रतिपादितः । एएण कारणेण य त अप्पां सद्दहेह तिविहेण । जेण य लहेह मोक्खं तं जाणिज्जह पयत्तेण ॥ ८५ ।। __ एतेन कारणेन च तमात्मानं श्रद्धत्त त्रिविधेन । येन च लभध्वं मोक्षं तं जानीत प्रयत्नेन ॥ एएण कारणेण य एतेन कारणेन चात्मनो मोक्षहेतुत्वेन । तं अप्पा सद्दहेह तिविहेण तमात्मानं श्रद्धत्त तत्र विपरीताभिनिवेशरहिता भवत यूयं त्रिविधेन मनोवचनकाययोगप्रकारेण । जेण य लहेह मोक्खं येन च कारणेनात्मश्रद्धानहेतुना लभवं मोक्षं सर्वकर्मप्रक्षयलक्षणं मोक्ष प्राप्तुत यूयं । तं जाणिजह पयत्तेण तमात्मानं जानीत ज्ञानगुणेन भेदज्ञानेन बुध्यध्वं यूयं, प्रयत्नेन चारित्रगुणेनैकलोलीभावतया तत्र तिष्ठत यूयं । मच्छो वि सालिसित्थो असुद्धभावो गओ महानरयं । इय गाउं अप्पाणं भावह जिणभावणा णिचं ॥ ८६ ॥ मत्स्योपि शालिसिक्थोऽशुद्धभावो गतः महानरकम् । इति ज्ञात्वा आत्मानं भावय जिनभावनां नित्यम् ॥ मच्छो वि सालिसित्थो मत्स्योऽपि मीनजातिरल्पजीवः तन्दुल सिक्थप्रमाणशरीरत्वान्नाम्ना शालिसिक्थः । असुद्धभावो गओ महा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy