________________
षट्प्राभृते
अप्पा अप्पम्म रओ रायादिसु सयलदोसपरिचत्तो । संसारतरणहेतुं धम्मोति जिणेहिं णिहिं ॥ ८३॥ आत्मा आत्मनिरतः रागादिषु सकलदोषपरित्यक्तः । संसारतरणहेतुः धर्म इति जिनैः निर्दिष्टः ॥
अप्पा अप्पम्म र आत्मा अत सातत्यगमने अतत्यूर्ध्वं व्रज्या - स्वभावेोर्ध्वमेव गच्छतीत्यात्मा शुद्धबुद्वैकस्वभाव आत्मनिरतो निजशुद्धबुद्वैकस्वभावे एकलोली भावभूतः । रायादिसु सयलदोसपरिचत्तो रागादिषु रागादिभ्यः सकलदोषपरित्यक्तः रागद्वेषमोहलोभादिसकलदोपरहित इत्यर्थः । संसारतरणहेदुं संसारस्य तरणहेतुः कारणभूतः । धम्मोति जिणेहि णिद्दिहं धर्म इति जिनैर्निर्दिष्टं प्रतिपादितं जिनपूजादिकं पुण्यमिति शेषः । तेन कारणेन जिनपूजादिषु द्वेषो न कर्तव्यः । उक्तं च योगीन्द्रदेवैः --
२३४
देवहं सत्यहं मुणिवरहं जो विद्देसु करेइ | नियामें पाउ हवे तसु जे संसारु भमेइ ॥ १ ॥ अस्य दोहकस्यायं भावः - देवशास्त्रगुरूणां प्रतिमासु निषेधिकादिषु च पुष्पादिभिः पुजादिषु च लौंका द्वेषं कुर्वन्ति तेषां पापं भवति तेन पापेन ते नरकादौ पतन्तीति ज्ञातव्यं ।
अह पुण अप्पा पिच्छदि पुण्णाई करेदि निरवसेसाई । तह विण पावदि सिद्धिं संसारत्यो पुणो भणिदो ॥ ८४ ॥
अथ पुनः आत्मानं नेच्छति पुण्यानि करोति निरवशेषाणि । तथापि न प्राप्नोति सिद्धिं संसारस्थः पुनर्भणितः ||
अह पुण अप्पा णिच्छदि अथ पुनरात्मानं नेच्छति न भावयति । पुण्णाई करेदि निरवसेसाई पुण्यानि करोति निरवशेषाणि पूजादाना१ देवेभ्यः शास्त्रेभ्यः सुनिवरेभ्यः यो विद्वेषं करोति । नियमेन पापं भवति तस्य येन संसारे भ्राम्यति ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org