________________
भावप्राभृतं ।
२३३
विहीन एवं गुणविशिष्ट आत्मनः शुद्धबुद्धैकस्वभावस्य चिच्चमत्कारलक्षणश्चिदानन्दरूपः परिणामो धर्म इत्युच्यते । स परिणामो गृहस्थानां न भवति पंचसूनासहितत्वात् । तथा चोक्तं-
खण्डनी पेषणी चुल्ली उदकुंभः प्रमार्जनी | पंचसूना गृहस्थस्य तेन मोक्षं न गच्छति ॥ १ ॥ यदि मोक्षं न गच्छति तदा जिनसम्यक्त्वपूर्वकं दानपूजादिलक्षणं विशिष्टगुणमुपार्जन् गृहस्थः स्वर्गं गच्छति परंपरया जिनलिंगेन मोक्षमपि प्राप्नोति ।
इति पुण्यधर्मयोः स्वरूपमुक्त्वेदानीं निर्विकल्पसमाधिलक्षणं कर्मक्षयकारणं कथयन्ति भगवन्तः
सहदि य पत्तेदि य रोचेदि य तह पुणो वि फासेदि । पुण्णं भोयनिमित्तं ण हु सो कम्मक्खयनिमित्तं ॥ ८२ ॥
श्रद्दधाति च प्रत्येति च रोचते च तथा पुनरपि स्पृशति । पुण्यं भोगनिमित्तं न हु तत् कर्मक्षयनिमित्तम् ॥
सहदि य श्रद्दधाति च तत्र विपरीताभिनिवेशरहितो भवति । पत्तेदि य प्रत्येति च मोक्षहेतुभूतत्वेन यथावत्तत्प्रतिपद्यते । रोचेदि य रोचते च मोक्षकारणतया तत्रैव रुचि करोति । तह पुणो वि फासेदि मोक्षार्थित्वात्तत्साधनतया स्पृशति अवगाहयति । पुण्णं भोयनिमित्तं एतत्पूजादिलक्षणं पुण्यं मोक्षार्थितया क्रियमाणं साक्षाद्भोगकारणं स्वर्गस्त्रीणामालिंगनादिकारणं तृतीयादिभवे मोक्षकारणं निग्रन्थलिंगेन । ण हु सो कम्मक्खयनिमित्तं न भवति हु- स्फुटं निश्चयेन साक्षात्तद्भवे गृहस्थलिंगेन कर्मक्षयनिमित्तं तद्भवे केवलज्ञानपूर्वकमोक्षनिमित्तं पुण्यं न भवतीति ज्ञातव्यं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org