________________
षट्प्राभृतें
पूयादिसु वयसहियं पुण्णं हि जिणेहि सासणे भणियं । मोहक्खहविहीण परिणामी अप्पणो धम्मो ॥ ८१ ॥
२३२
पूजादिषु व्रतसहितं पुण्यं हि जिनैः शासने भणितम् । मोक्षोभविहीनः परिणामः आत्मनो धर्मः ॥
:
पूयादिसु वयसहियं पूजादिषु व्रतसहितं पूजा आदिर्येषां कर्मणां तानि पूजादीनि तेषु पूजादिषुव्रतसहितं श्रावकत्रतसहितं । पुण्णं हि जिणेहि सासणे भणियं पुण्यं स्वर्गसौख्यदायकं कर्म जिनैस्तीर्थकरपरमदेवैरपरकेवलिभिश्च हि स्फुटं शासने आर्हतमते उपासकाध्ययननाम्न्यङ्गे भणितं कर्तृतया प्रतिपादितं इदं कर्म करणीयमित्यादिष्टं । तथा चक्ति जिनसेनपादैः
ww
पुण्यं जिनेन्द्रचरणार्चनसाध्यमाद्यं पुण्यं सुपात्रगतदानसमुत्थमेतत् । पुण्यं व्रतानुचरणादुपवासयोगात् पुण्यार्थिनामिति चतुष्टयमर्जनीयम् ॥ १ ॥ तथा समन्तभद्रस्वाम्याचार्यैरप्यभिहितं---
देवाधिदेवचरणे परिचरणं सर्वदुःखनिर्हरणं । कामदुहि कामदाहिनि परिचिनुयादादृतो नित्यं ॥ १ ॥ अर्हश्चरणसपर्या महानुभावं महात्मनामवदत् । भेकः प्रमोदमत्तः कुसुमेनैकेन राजगृहे ॥ २॥
यदौदं सर्वज्ञवीतरागपूजालक्षणं तीर्थंकर नामगोत्रबन्धकारणं विशिष्टं निर्निदानं पुण्यं पारम्पर्येण मोक्षकारणं गृहस्थानां श्रीमद्भिर्भणितं तर्हि साक्षान्मोक्षहेतुभूतो धर्मः क इत्याह- मोहक्खोहविहीणो परिणामो अप्पणी धम्मो मोहः पुत्रकलत्रमित्रघनादिषु ममेदमिति भावः, क्षोभः परीषहोपसर्गनिपाते चित्तस्य चलनं ताभ्यां विहीनो रहितः मोहक्षोभ -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org