________________
भावप्राभृतं ।
२३१ भिक्षाभोजनं कुर्वन् उद्दण्डचर्यायां पर्यटन् भिक्षुर्जिनलिंगमुच्यते । साभिक्षा पंचविधा-अक्षम्रक्षणं, गर्तापूरणं, भ्रामरी, गोचारी, उदराग्निविध्यापनं चेति । भावं भाविय पुव्वं भावं आत्मरूपं भावयित्वा जिनसम्यक्त्वं च भावयित्वा पूर्व जिनलिंगं भवति । जिणलिंगं णिम्मलं सुद्धं जिनलिंगं नग्नरूपमर्हन्मुद्रामयूरपिच्छकमण्डलुसहितं निर्मलं कथ्यते तद्वयरहितं लिंगं कश्मलमित्युच्यते । अन्यत्र तीर्थकरपरमदेवात्तप्त.विना अवधिज्ञानादृते चेत्यर्थः, शुद्धं चर्मजलतैलघृतभूतनाशनास्वादरहितमुद्दण्डय॑मन्तरायमलरहितं शुद्धमित्यभिप्रायः ।
जहरयणाणं पवरं वज्जं जह तरुगणाण गोसीरं । तह धम्माणं पवरं जिणधम्म भावि भवमहणं ॥८० ॥ यथा रत्नानां प्रवर वज्रं यथा तरुगणानां गोशीरम् ।
तथा धर्माणां प्रवरं जिनधर्म भावय भवमथनम् ॥ जह रयणाणं पवरं यथा येन प्रकारेण रत्नानां मध्ये प्रवरं उत्तमं रत्नं किं वजं हीरकं षट्कोणं मौक्तिकगोमेदपुष्परागपुलकप्रवालचन्द्रकान्तरविकान्तजलकान्तहंसगर्भमसारगर्भरुचकपद्मरागेन्द्रनीलमहानीलनीलमरकतवैडूर्यलशुनकर्केतनेत्यादीनां रत्नानां मध्ये वज्र हीरकं हि सर्वोत्तमं तस्य देवाधिष्ठितत्वात् । जह तरुगणाण गोसीरं तरुगणानां मध्ये यथा गोशीर्ष तैलपर्णिकं परमोत्तमचन्दनं प्रवरं । तह धम्माणं पवरं तथा धर्माणां मध्ये जिनधर्म प्रवरं । हे मुने! त्वं भावि भवमहणं भावय रोचय भवमथनं संसारविच्छेदकम् ।
तं धम्मं केरिसं हवदि तं तहा
स धर्मः कीदृशो भवति तद्यथा-तमेव निरूपयन्ति श्रीकुन्दकुन्दाचार्याः--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org