________________
२३०
षट्प्राभूतेरीकमुने ! त्वं भावय । धरहि मणमत्तदुरयं विषयकषायान् गच्छन्तं मनोमत्ताद्वरदं मत्तगजं त्वं धर रक्ष । णाणंकुसएण मुणिपवर ज्ञानाकुशेन निष्ठुरमस्तकप्रहारेण हे मुनिप्रवर ! महामुनिमतलिक ! इति शेषः ।
पंचविहचेलचायं खिदिसयणं दुविहसंजमं भिक्खू । भावं भाविय पुव्वं जिणलिंगं णिम्मलं सुद्धं ॥ ७९ ॥
पञ्चविधचेलत्यागं क्षितिशयनं द्विविधसंयमं भिक्षो ! ।
भावं भावयित्वा पूर्व जिनलिङ्गं निर्मलं शुद्धम् ॥ पंचविहचेलचायं पंचविधानि पंचप्रकाराणि चेलानि वस्त्राणि तेषां त्यागः परिहारो यस्मिन् जिनलिंगे जिनमुद्रायां तत्पंचविधचेलत्यागं । उक्तं च गौतमेन गणिना प्रतिक्रमणसूत्रे___“अंडज वा-कोशजं तसरिचीरं (१) वोडजं वा कर्पासवस्त्रं (२) रोमजं वा ऊर्णामयं वस्त्रं एडकोष्ट्रादिरोमवस्त्रं (३) वकजं वा वल्कं वृक्षादित्वम्भंगादिछलिवस्त्रं तट्टादिकं चापि (४) चर्मजं वा मृगचर्मव्याघ्रचर्मचित्रकचर्मगजचर्मादिकं न परिधानीयं (५)"
खिदिसयणं दुविहसंजमं भिक्खू क्षितिशयनं भूमिशयनं तृणकाष्ठशिलास्थंडिलशयनं, द्विविधः संयमो यस्मिन् जिनलिंगे तद्विविधसंयमं । इन्द्रियसयम: पंचेन्द्रियसंकोचो मनः संकोचश्चेति षड्विधः संयमः । प्राणसंयमः पृथिव्यप्तेजोवायुवनस्पतिलक्षणपंचस्थावररक्षणं द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपंचेन्द्रियचतुःप्रकारत्रसजीवरक्षणलक्षणः षविधः प्राणसंयमः । भिक्खू हे भिक्षो! अहो तपस्विन् ! अथवा १ उत्तम. घ.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org