SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं ! २२९ एकस्मिन्निष्टे वस्तुनि निश्चला मतिर्ध्यानं । आर्तरौद्रधर्मापेक्षया तु मतिचंचला अशुभा शुभा वा सा भावना कथ्यते, चित्तं चिन्तनं अनेकनयमुक्तानुप्रेक्षणं ख्यापनं श्रुतज्ञानपदालोचनं वा कथ्यते न तु ध्यानं । अत्र संहननलक्षणं यथा यदुदयादस्थिबन्धनविशेषस्तत्संहननं षट्प्रकारं । वज्राकारोभयास्थिमध्ये सवलयबन्धनं सनाराचं वज्रवृषभनाराचसंहननं । तदेव वलयरहितं वज्रनाराचसंहननं । वज्राकारवलयव्यपेतं सनाराचं नाराचसंहननं । एकमस्थि सनाराचं अपरमनाराचं अर्द्धनाराचसंहननं । उभयास्थिप्रान्ते सकीलकं कीलिकासंहननं । अन्तरप्राप्तपरस्परास्थिसन्धिबहिःशिरास्नायुमांसवेष्टितं असंप्राप्तासृपाटिकासंहननं चेति । अष्टसप्ततितम्यां गाथायां वारसविहतवयरणं इत्यस्य पादस्य व्याख्यानं समाप्तं । तेरसकिरियाओ भावि तिविहेण त्रयोदशक्रिया भावय त्वं त्रिविधेन त्रिकरणशुद्धया पंचनमस्काराः, षडावश्यकानि, चैत्यालयमध्ये प्रविशता निसिही निसिही निसिही इति वास्त्रयं हृद्युच्चार्यते, जिनप्रतिमावन्दनाभक्तिं कृत्वा बहिर्निर्गच्छता भव्यजीवेन असिही असिही असिही इति वारत्रयं हृद्युच्चार्यत इति त्रयोदशक्रिया हे भव्य ! त्वं भावय । तथा चोक्तं p निःसंगोऽहं जिनानां सदनमनुपमं त्रिःपरीत्येत्य भक्त्या स्थित्वा गत्वा निषिद्धयुच्चरणपरिणतोऽन्तः शनैर्हस्तयुग्मं । भाले संस्थाप्य बुद्धया मम दुरितहरं कीर्तये शक्रवन्द्यं निन्दादूरं सदाप्तं क्षयरहितममुं ज्ञानभानुं जिनेन्द्रं ॥ १ ॥ अरे लौंका दुरात्मानो ! यदि भवद्भिर्जिनप्रतिमा चैत्यालयश्च न मान्यते तदेदं वृत्तं पूज्यपादैर्जिनवन्दनाविधिः कथमुक्तः । तेन दुराग्रहं विमुच्यास्तिकत्वं भावनीयं भवद्भिः । अथवा पंचमहाव्रतानि पंचसमितयस्तिस्रो गुप्तयश्चेति त्रयोदशक्रियास्त्रयोदशविधं चारित्रं हे भव्यवरपुण्ड Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy