________________
२२८
षट्प्राभृतेयात्मनो वस्तुन एकत्वात् सामान्यरूपतया व्यञ्जनस्य योगानां चैकीकरणादेकार्थचिन्तानिरोधोऽपि घटते । द्रव्यात्पर्यायं व्यञ्जनाद्वयञ्जनान्तरं योगायोगान्तरं विहाय अन्यत्र चिन्तावृतौ अनेकार्थता न द्रव्यादेः पर्यायादौ प्रवृत्तौ । तथा श्रुतज्ञानेन एकार्थ वितर्कयन्नविचलितचित्तः प्रवृत्तः क्षीणकषाय एकत्ववितर्कवान् भवति । वाङ्मनोयोगं बादरकपाययोगं च परिहाप्य सूक्ष्मकोययोगालम्बनोऽन्तर्मुहूर्तशेषायुर्वेद्यनामगोत्रः सूक्ष्मक्रियाप्रतिपातिभाग्भवति । यदा पुनरायुषोऽधिकं बेद्यादित्रितयं तदा दण्डकपाटादिकं चतुःसमयैः कृत्वा पुनस्तावत्समयैः समुपहृत्य समीकृतकर्मचतुष्टयः सूक्ष्मक्रियाप्रतिपातिध्यानं ध्यायति । ततोऽ योगिनः समुच्छिन्नक्रियानिवृत्तिव्युपरतक्रियानिवृत्यपरनामकं ध्यानं भवति । तस्मिन् स्थाने स्थितस्य सर्वास्रवनिरोधात् सर्वशेषकर्मविध्वंसनसमर्थं सम्पूर्ण यथाख्यातचारित्रं साक्षान्मोक्षकारणं संजायते । अन्त्ये शुक्लध्यानद्वये चिन्तानिरोधाभावेऽपि ध्यानव्यवहारः ध्यानकार्यस्य योगापहारस्य अघातिघातस्य चोपचारनिमित्तस्य सद्भावात् । तथा साक्षात्कृतसमस्तवस्तावहति न किंचिद्धयेयमस्ति । ध्यानं तु तत्र असमानकर्मणां समानत्वकरणार्थ या चेष्टा, कर्मसाम्ये तत्क्षययोग्यसमया या अलौकिका मनीषा तदेव सौख्यं मोहक्षयाज्ञानावरणदर्शनावरणक्षयाच्चात्मनो दर्शनं ज्ञानं च भवति । अन्तरायविनाशादनन्तवीर्य जीवस्य स्यात् । आयुकर्मविध्वंसनाच्चेतनस्य अन्ममरणाभावो भवति । नामकर्मनिर्मूलनानरस्यामूर्तत्वं जायते । नीचोच्चगोत्रवित्रासनात्कुलद्वयविनाशो भवति । वेदनीयकर्मनिर्मूलकाषं कषणात् जीवस्येन्द्रियोत्पन्नसुखाभावः संजायते ।
१-२ पुस्तकद्वयेऽपि ईगेव पाठः किन्तु कषायस्थाने कायेनेति पाठेन भवितव्यं आगमाविरुद्धत्वात् । कषायानां तत्राभावाच न तेषां हापनं सक्षमीकरणत्वं व सयोगिगुणस्थाने घटते। ३ समीपकृत. क. । ४ ज्ञानावरणक्षयात्. ख.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org